This page has been fully proofread once and needs a second look.

१२२
 
काव्यमाला ।
 
त्कण्ठा बाला षोडशहायना वरस्त्री लसन्तं क्रीडन्तमलसं लक्ष्मीमदेन सालसं तं भवट्ट द्दृ-

ष्टिगोचरीभूतं भक्तजनमवलोकयति पश्यति । स्नेहार्द्रया दृशेति शेषः ॥

 
मुक्तावलीव रहिता शिव नायकेन
 

मुक्ता भवद्गणसभेव विनायकन ।

वाणी त्वया परिहृताखिलनायकेन
 

संभाव्यते हृदयसंवननाय केन ॥ ४६ ॥
 

 
हे शिव निःश्रेयसप्रद, नायकेन । मध्यमो मणिर्नेता च नायकः । 'नायको
…….
भूम्न्युत्तमे द्वयोः' इति मङ्खः । नायकेन हारमध्यमणिना रहिता मुक्तावलीव मुक्तालतेव ।

विनायकेन गणपतिना विना भगवद्गणानां नन्दिमहाकालभृङ्गिरीटप्रभृतीनां सभेव

अखिलस्य त्रिजगतो नायकेन स्वामिना परिहृता व्यक्ता वाणी हृदयसंवननाय हृदयस्य

चेतसः संवननं वशीकरणं तदर्थेथं केन जनेन संभाव्यते । न केनापीत्यर्थः । श्रीशिवस्तुति-

सूक्तिविनाकृता कविवाणी सर्वैरनादरणीयेत्यर्थः ॥
 

 
यस्योचितः प्रथितमान समाधिनान्त-

स्तेनार्तिमुद्दहति मानसमाधिनान्तः ।

शुद्धां मतिं स्टशति पांसुलभावलेप-

स्तत्राप्युपैषि न कृपां सुलभावलेपः ॥ ४७ ॥
 

 
हे प्रथितमान प्रथितो मानोऽभिमानो यस्य तस्य संबोधनं प्रथितमान । यस्य आधे-

र्मन:पीडा पर्यायस्य समाधिना आत्ममनसोरैक्येन योगाभ्यासोचितेनान्तो नाश उचितो

युक्तः । तेनाधिना मनःपीडया । 'आधिर्ना मानसी पीडा' इत्यमरः । अन्तरन्तरे मा-

नसं चित्तमार्ति पीडामुद्वहति । हे प्रथितमान स्वामिन्, पांसुलो मलिनश्वासौ भावोऽभि-

प्रायस्तेन लेपः शुद्धां विमलां सात्त्विकीं मतिं बुद्धिं स्पृशति । हे स्वामिन्, तत्रापि एव-

मपि सति कृपां दयां नोपैषि । मादृशे जन इति शेषः । त्वं किंभूतः । सुलभावलेपः

सुलभोऽवलेपोऽवगणना यस्य । सावलेप इत्यर्थः ॥
 

 
कामं भवेऽत्र बहवः सुभगस्वभावा
 

भावा भवन्तु मम तु द्वितयं स्पृहायै ।

शब्दार्थ[^१]पाकरुचिरा कविराजगीर्वा

गीर्वाणसिन्धुधरभक्तिरभङ्गुरा वा ॥ १८ ॥
 

 
हे स्वामिन्, कामं निश्चये । अत्रास्मिन्भवे संसारे बहवो भावाः पदार्थाश्चन्द्रमुखी-

 
[^
]. 'मात्ररुचिरा' ख.
 
Digitized by Google