This page has been fully proofread once and needs a second look.

९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
लब्धा धृतिर्दिवि कदाचन वासवेन

सैन्येन सा परिवृतेन न वासवेन ।
 

नो वा बलेन भुवि पीतनवासवेन
 

त्वां भेजुषो भवति याभिनवा सवेन ॥ ४३ ॥
 
१२१
 

 
हे विभो, सवेन यज्ञेन त्वां विभुं भेजुषः सेवमानस्याभिनवा नूतना या धृतिर्भवति

सा धृतिः स्थितिर्वासवेनेन्द्रेण कदाचन न लब्धा । जातुचित्रन्न लब्धेत्यर्थः । किंभूतेन

वासवेन । परिवृतेन परिवलितेन । केन । सैन्येन बलेन । किंभूतेन सैन्येन । वासवेन

वसूनामष्टानां देवयोनीनामिदं वासवं तेन ...................
 

 
या दुर्लभा दिवि महर्षभयान कस्य
 

कालस्य या निधनधाम भयानकस्य ।

वाचा तया कृतनतेरभयानकस्य
 

तुल्यश्रियार्पयसि शं शुभया न कस्य ॥ ४४ ॥
 

 
हे महर्षभयान, महांचासौ ऋषभः शाक्रो वाहनं यस्य तत्संबोधनं हे महर्षभयान ।

या तव वाक् दिवि स्वर्गे कस्य ब्रह्मणः । कशब्दो ब्रह्मवाचकः । 'मारुते वेधसि ब्रध्ने

पुंसि कः कं शिरोऽम्बुनोः' इत्यमरः । कस्य ब्रह्मणो दुर्लभा । ब्रह्मणोऽपि दुर्लभेत्यर्थः ।

तथा या वाक् भयानकस्य घोरस्य कालस्य कृतान्तस्य निधनस्य मरणस्य धाम स्थानं

भवति । कृता नतिर्येन स कृतनतिः । तस्य भक्तजनस्य कृतेऽभयस्यानकः पटहस्तस्य

तुल्यश्रिया सदृशशोभया । तया शुभया अतिमधुरया शुभप्रदया च वाचा कस्य न भ

क्तिप्रह्वजनस्य शं कल्याणमर्पयसि ददासि । अपि तु सर्वस्यैव ॥

 
यं वीक्षसे क्षतमहाकलिकाल सन्तं
 

क्लि
ष्टिंटं कृतीकृतबृहत्कलिकाल सन्तम् ।

इन्दोरिवामृतमयी कलिका लसन्तं
 

बालावलोकयति सोत्कलिकालसं तम् ॥ ४५ ॥
 

 
हे क्षतमहाकलिकाल महान्कलिः कलहो यस्य स महाकलिः तादृशश्वासौ कालः

कृतान्तो महाकलिकालः । क्षतो महाकलिकालो येन स तादृशः । तथा हे स्वामिन् की-

दृश, कृतीकृतमहाकलिकाल । 'कृतं युगेऽपि पर्याप्ते विहिते' इति विश्वः । कृतं कृतयुगम् ।

अकृतं कृतं कृतः कृतीकृतः कृतयुगीकृतो बृहत्कलिकालस्तुरीययुगसमयो येन स तस्य

संबोधनं कृतीकृत बृहत्कलिकाल । क्लिष्टं सन्तं खेदितं वर्तमानं सन्तं साधुं भक्तजनं य
दी

द्वी
क्षसे प्रसन्नदृशा ईक्षसे । इन्दोश्चन्द्रमसोऽमृतमयी कलेव मनोहरा सोत्कलिका सो-
१६
 
Digitized by Google