This page has not been fully proofread.

९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
लब्धा धृतिर्दिवि कदाचन वासवेन
सैन्येन सा परिवृतेन न वासवेन ।
 
नो वा बलेन भुवि पीतनवासवेन
 
त्वां भेजुषो भवति याभिनवा सवेन ॥ ४३ ॥
 
१२१
 
हे विभो, सवेन यज्ञेन त्वां विभुं भेजुषः सेवमानस्याभिनवा नूतना या धृतिर्भवति
सा धृतिः स्थितिर्वासवेनेन्द्रेण कदाचन न लब्धा । जातुचित्र लब्धेत्यर्थः । किंभूतेन
वासवेन । परिवृतेन परिवलितेन । केन । सैन्येन बलेन । किंभूतेन सैन्येन । वासवेन
वसूनामष्टानां देवयोनीनामिदं वासवं तेन ...................
 
या दुर्लभा दिवि महर्षभयान कस्य
 
कालस्य या निधनधाम भयानकस्य ।
वाचा तया कृतनतेरभयानकस्य
 
तुल्यश्रियार्पयसि शं शुभया न कस्य ॥ ४४ ॥
 
हे महर्षभयान, महांचासौ ऋषभः शाक्करो वाहनं यस्य तत्संबोधनं हे महर्षभयान ।
या तव वाक् दिवि स्वर्गे कस्य ब्रह्मणः । कशब्दो ब्रह्मवाचकः । 'मारुते वेधसि ब्रने
पुंसि कः कं शिरोऽम्बुनोः' इत्यमरः । कस्य ब्रह्मणो दुर्लभा । ब्रह्मणोऽपि दुर्लभेत्यर्थः ।
तथा या वाक् भयानकस्य घोरस्य कालस्य कृतान्तस्य निधनस्य मरणस्य धाम स्थानं
भवति । कृता नतिर्येन स कृतनतिः । तस्य भक्तजनस्य कृतेऽभयस्यानकः पटहस्तस्य
तुल्यश्रिया सदृशशोभया । तया शुभया अतिमधुरया शुभप्रदया च वाचा कस्य न भ
क्तिप्रजनस्य शं कल्याणमर्पयसि ददासि । अपि तु सर्वस्यैव ॥
यं वीक्षसे क्षतमहाकलिकाल सन्तं
 
ष्टिंकृतीकृतबृहत्कलिकाल सन्तम् ।
इन्दोरिवामृतमयी कलिका लसन्तं
 
बालावलोकयति सोत्कलिकालसं तम् ॥ ४५ ॥
 
हे क्षतमहाकलिकाल महान्कलिः कलहो यस्य स महाकलिः तादृशश्वासौ कालः
कृतान्तो महाकलिकालः । क्षतो महाकलिकालो येन स तादृशः । तथा हे स्वामिन् की-
दृश, कृतीकृतमहाकलिकाल । 'कृतं युगेऽपि पर्याप्ते विहिते' इति विश्वः । कृतं कृतयुगम् ।
अकृतं कृतं कृतः कृतीकृतः कृतयुगीकृतो बृहत्कलिकालस्तुरीययुगसमयो येन स तस्य
संबोधनं कृतीकृत बृहत्कलिकाल । क्लिष्टं सन्तं खेदितं वर्तमानं सन्तं साधुं भक्तजनं य
दीक्षसे प्रसन्नदृशा ईक्षसे । इन्दोश्चन्द्रमसोऽमृतमयी कलेव मनोहरा सोत्कलिका सो-
१६
 
Digitized by Google