This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
यन्
यग्निःस्ट स्पृहोऽप्यजनयस्तनयं कुमारं

मारं विधाय शलमं नयनानलस्य ।

तत्ते परार्थमिति विश्रुतमा कुमारं
 

मा रंहसा जहिहि देहि तदेहि वाचम् ॥ ४० ॥

 
निःस्पृहोऽपि निष्कामोऽपि हे स्वामिन्, मारं म्रियन्तेऽनेन विरहिणो मारः का-

मस्तं नयनानलस्य नेत्राभेःग्नेः शलभं पतङ्गं विधाय कुमारं षडाननं यत्सुतमजनय उत्पा-

दितवानसि तच्चरितं तव परार्थं परप्रयोजनं तारकासुराद्देवांस्त्रातुमाकुमारं बालपर्यन्तं वि-

श्रुतं प्रसिद्धम् । तत्तस्माद्विभो, त्वं रंहसा वेगेन एहि मा जहिहि । मामित्यर्थः । मां मा

त्यज । वाचमभयप्रदानार्थं देहि ॥
 

 
१२०
 

 
सर्वस्वमेव मम दत्तमहाप्रहारा
 

हारामलं हर हरन्त्यरयो विवेकम् ।

रक्षाकरी तव कृपात्र कृतावहारा
 

हा राजशेखरमणेः पुरतो हतोऽहम् ॥ ४१ ॥
 

 
हे विभो हर, दत्ता महान्तः प्रहाराः क्षतानि यैस्तेऽरयः । आन्तरा इति शेषः ।

शत्रवः षट् कामादयः । हारवदमलं धवलतरं निर्मलं विवेकं कार्याकार्यविचारं सर्वस्वं

सर्वस्वभूतम् । हा कष्टे । तव राजशेखरमणे: । 'राजा नृपे शशाङ्के च' इति मङ्गःखः । च-

न्द्रचूडामणेः । अथ च राज्ञां नृपाणां चूडामणेः सार्वभौमस्य तव पुरतस्तत्सर्वस्वं मम ह-

रन्ति । अत्र विषये तवैव कृपा दया रक्षाकरी । किंभूता । कृतोऽवहारोऽवहेला यया

सा । हा कष्टं राजशेखरमणेरपि पुरतोऽहं हतः । चौरैर्मुषित इत्यर्थः ॥
 

 
देवालये वसतिमर्थयते कपोतः
 

सिन्धौ वणिग्भजति वृत्तिमशङ्कपोतः ।

पृष्ठे श्रियं वहति नित्यम नेकपोऽत-

स्त्वद्भक्तिमेमि सरसीमिव भेकपोतः ॥ ४२ ॥
 

 
हे विभो, कपोत: पारावतो देवालये देवगृहे वसतिं प्रार्थयते । तथा सिन्धौ समुद्रे

वणिक् पोतवणिक् वृत्तिं स्थितिं जीवनोपायं भजति सेवते । किंभूतः । अशङ्कः पोतो

यस्य । तथानेकपो द्विपो वाहनभूतः पृष्ठे नित्यं श्रियं लक्ष्मीं वहति । 'पद्मां गजगतां नुमः'

इत्यागमोक्तेः । अतो हेतोरहं त्वद्भक्तिमेमि प्राप्नोमि । कः कामित्र । भेको मण्डूकः

सरसीमिव ॥
 
Digitized by Google