This page has been fully proofread once and needs a second look.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
११९
 
देहसामर्थ्यस्य मम हानिः प्रतिदिनमस्ति । तथा मम असतां दुर्जनानां हेतूनां परिभ-

वास्तैः
: कृता यथा परिभवा दुःसहास्तथैव मम दुःखानि दुःसहानि । हा कष्टे । अहं

निःसह एतत्कष्टासहोऽस्मि । तस्मान्मयि निःशरणेऽनुकम्पां दयां कुरु ॥
 
वास्तैः
 

 
निर्भर्त्सितो विपदि बन्धुरिवाभिमानी
 

मा नीरसं स्पृशतु नाम मनो विवेकः ।

विद्यां निदाघ इव धर्मरुचिर्हिमानी-

मानीय नाशमुपतापयते तु मोहः ॥ ३७ ॥
 

 
नाम निश्चये । विपदि विपत्काले शरणार्थमागतोऽभिमानी अहंकृतो बन्धुरिव वि

वेकः कार्याकार्यविचारो नीरसं शास्त्राभ्यासरसं विनाकृतं मम चित्तं मा स्पृशतु न स्पृ.

शताम् । तु पक्षान्तरे । मोहोऽज्ञानं निदाघे ग्रीष्मे घनरुचिः सूर्य इव हिमानीं हिमसंततिं

नाशमानीय प्रापय्य यथा जनमुपतापयते तथा विद्यां तत्त्वज्ञानमयीं विद्यां नाशमानीय

मनश्चित्तमुपतापयते संतापयति । अर्थान्ममैव । एतद्द्वृत्तं प्राचीनादर्शेषु न दृश्यते तथापि
 

व्याख्यातम् ॥
 

 
तस्मादुपैति न तनुस्तरसावसायं
 

सायंतनी प्रतिपदिन्दुकलेव यावत् ।

तावत्कृपां कुरु हतोऽस्म्यहमंहसायं
 
संध्याकाले भवा सायं-
............ यावन ह
 

सा यन्त्रिता मयि तवास्तनयेन येन ॥ ३८ ॥

 
हे स्वामिन् तस्माद्धेतोः । ममेति शेषः । सायंतनी सायं
संध्याकाले भवा सायं-
तनी प्रतिपदिन्दुकला पर्वेन्दुकलेव तनुस्तरसा बलेन शीघ्रं वा
.…
यावन्न ह
तोऽस्मि । तेन केनेत्याह - अस्तनयेन अस्तो दूरीकृतो नयो नीतिर्येन तत्तादृशेन ये-

नांहसा पापेन । ममेति शेषः । तव सा कृपा मयि विषये यन्त्रिता । निरुद्धेत्यर्थः ॥

 
अभ्येति मृत्युभटसंहतिरस्तकम्पा
 
-
 

कम्पामहे मनसि यां विनिवेशयन्तः ।

एका गतिर्गिरिश तत्र तवानुकम्पा
 

कं षात्रतां नयति या न शुभोदयानाम् ॥ ३९ ॥

 
भौः स्वामिन्, यो यमभटसंहतितिं मनसि विनिवेशयन्तो वयं कम्पामहे अस्तकम्पा

अस्तस्त्यक्तः कम्पो या सास्तकम्पा निर्भया यमभटश्रेणी अभ्येति समीपमेति । तत्र विषये

तवैव सानुकम्पा दया ममैका गतिः । सानुकम्पा का । या तवानुकम्पा शुभोदयानां

शुभानां मङ्गलानामुदयाः शुभानि चोदयाश्च तेषां वा कं न भक्तजनं पात्रतां नयति ॥
 
Digitized by Google