This page has not been fully proofread.

काव्यमाला ।
 
शान्तं मनो यदि यमैर्नियमैः किमन्यै-
र्वाणी यदि प्रियहिता स्तुतिचाटुभिः किम् ।
कारुण्यमस्ति यदि किं व्रतहोमदानै-
भक्तिर्भवे यदि किमन्यसुखाभिलाषैः ॥ ३४ ॥
 
यदि मनः शान्तं परहिंसापरद्रव्यस्पृहादिभ्यो निवृत्तं तर्हि यमैर्बहिः शौचाचारा-
दिभिः, नियमैर्ब्रतादिभिश्चान्यैः किम् । न किंचित्कृत्यमित्यर्थः । तथा कस्यापि वाणी
सूक्तिः प्रिया मधुरा हिता च हितोपदेशकारिणी च यदि भवति तर्हि स्तुतिचाटुभिः
स्तुतिरूपाणि यानि चाटूनि तैः किम् । तथा कारुण्यं भूतानुकम्पा यदि भवति तर्हि
व्रतं कृच्छ्रचान्द्रायणादि, होमः शान्तिककर्मादिः, दानं च तैः किम् । न किंचिदित्यर्थः ।
तथा भवे श्रीशिवे यदि भक्तिर्वाङ्मनः कर्मभिस्तदासक्तिर्यदि भवति तर्ह्यन्यसुखेष्व-
स्थिरेष्वभिलाषैः किम् । न किंचित् । विगलितवेद्यान्तरपरमानन्ददायिनी श्रीशिवभ-
क्तिरेवाशास्येत्यर्थः ॥
 
भुक्तं विकल्पकवलैः सुरलोकसौख्य-
मालोकिता विविधशास्त्रदृशैव मुक्तिः ।
पीता सुधा श्रवणशुक्तिपुटैः समक्ष-
मास्वादिता पुनरियं शिवभक्तिरेव ॥ ३५ ॥
 
विकल्पः कुतर्कोहः स एव कवलं ग्रासो येषां ते विकल्पकवला वैकल्पिकाः केचि-
न्मन्दधियः । तैः कर्तृभिः सुरलोकसौख्यमप्सरः सुधापाननन्दनोद्यानविहारादि भुक्तं
मुक्तिरालोकिता विचारिता । सौख्यमिति 'वेदाः प्रमाणम्' इतिवदजहल्लिङ्गं कर्म ।
स्वर्गभोग एव मुक्तिरिति तैर्निर्णीतमित्यर्थः । अधुना स्वमतमाह - अस्माभिरिति
शेषः । अस्माभिस्तु विविधानि यानि शास्त्राणि शिवशासनानुसारीणि तेषां दृग् ज्ञानं
तया शिवभक्तिरेव परमेश्वरभक्तिरेव मुक्तिरालोकिता निर्णीता । किंभूता पुनः शिव-
भक्तिः । समक्षं साक्षादेव सुधा अमृतं पोता तदासक्तमनोभिः पीता । कैः । श्रवणशुक्ति-
पुटैः श्रवणान्येव शुक्तयः पानपात्राणि तत्पुटानि तैः ॥
 
दीर्घाण्यघान्यधिशुचीव भवन्त्यहानि
हानिर्बलस्य शरदीव नदीजलस्य ।
दुःखान्यसत्परिभवा इव दुःसहानि
 
हा निःसहोऽस्मि कुरु निःशरणेऽनुकम्पाम् ॥ ३६ ॥
ममेति शेषः । हे विभो, अधिशुचि आषाढमास इव अहानि दिवसानि दीर्घाणि
मम अघानि पातकानि भवन्त्येव सन्त्येव । तथा शरदि शरत्काले नदीजलस्येव बलस्य
 
Digitized by Google