This page has been fully proofread once and needs a second look.

९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
किं वा न तत्र भगवन्मम ये सखाय-

स्तेऽन्येऽपि सन्ति गवयाः कपयः कुरङ्गः ॥ ३१ ॥

 
अहं भगवन्तं श्रोशिवमपरं न किंचिद्याचे किं त्रेस्वेतदेव । एतत्किम् । कैलासाख्ये गि-

रीन्द्रे पर्वतवरे भवता स्वामिनाधिष्टिते मम भवदनुग्रहेण वसतिरस्तु । हे भगवन्, ये मम

सखायः सुहृदस्ते तत्र किं न सन्ति अवश्यं सन्त्येव । मादृशाः श्रीशिवभक्तिरसामृत-

सिक्तचेतसस्तत्र शैले सन्त्येव । किं वान्येऽपि तत्र कैलासे पर्वतेन्द्रे गवया मृगविशेषाः

कपयो वानराः अन्येऽपि कुरङ्गा मृगास्तत्र सखायः किं न सन्त्येव । अयं भावः - यः

पर्वतेन्द्रः कैलासः श्रीशिवचरणाम्भोजरजःपवित्रितस्थलस्तत्र गवयैः कपिभिः कुरङ्गैः

सह वासोऽप्यन्याभ्यः सुरभूमिभ्यो देवसभाधिष्ठिताभ्योऽधिकानन्दप्रदो मम रोचते ।

अत्र रसवदलंकारो ध्वन्यते ॥
 

 
वाचाममी न विषये विषयेषु येषु
 

तृष्णान्वभावि विषमा विषमाकिरन्ती ।

तन्मां भजोज्ज्वलविलोलविलोचनान्त-

विन्यास[^१]भासुरसुधारसुधारसेन ॥ ३२ ॥
 
-
 

 
अमी विषयाः पञ्चेन्द्रियानुभूताः शब्दाद्या भोगा वाचां विषये गोचरे न सन्ति ।

अमी के इत्याह - विषं गरलमासमन्तात्किरन्ती विकिरन्ती तृष्णा येषु विषयेषु म

यान्वभावि अनुभूता । तत्तस्मात्कारणात् हे स्वामिनू, उज्ज्वलो धवलो विलोलश्च

यो नयनान्तः । नेत्रत्रिभागावलोकनरूप इत्यर्थः । तस्य विन्यासः पातः स एव भा-

सुरः सुधारः शोभनधारः सुधारसः पीयूषरसस्तेन मां पूर्वोक्तविषदग्धं तृष्णातुरं भज ।

दयस्वेत्यर्थः ॥
 

 
नानुग्रहस्तव विना त्वयि भक्तियोगं
 

नानुग्रहं तव विना त्वयि भक्तियोगः ।

बीजप्ररोहवदसावनयोर्न कस्य
 
११७
 

भूत्यै परस्परनिमित्तनिमित्तिभावः ॥ ३३ ॥
 

 

 
अत्र एवशब्द आर्थः । हे स्वामिन्, तव भक्तियोगमेव विना तवानुग्रहः प्रसादो न

भवति । तथा तवैवानुग्रहं विना त्वयि भक्तियोगो न भवति । अनयोस्तवानुग्रहभक्ति-

योगयोर्बीजप्ररोहवद्वीबीजाङ्कुरवदसौ परस्परं निमित्तनिमित्तिभावः कार्यकारणभावः कस्य

न भूत्यै विभूत्यै भवति । यथा बीजादङ्कुरोत्पत्तिः अङ्कुरादपि प्रवर्धमानाद्बीजोत्पत्तिरेवं
 

भवत्प्रसादभक्तियोगयोरपीत्यर्थः ॥
 

 
[^
]. 'भास्वर' क.
 
Digitized by Google