This page has not been fully proofread.

९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
किं वा न तत्र भगवन्मम ये सखाय-
स्तेऽन्येऽपि सन्ति गवयाः कपयः कुरङ्गः ॥ ३१ ॥
अहं भगवन्तं श्रोशिवमपरं न किंचियाचे किं त्रेतदेव । एतत्किम् । कैलासाख्ये गि-
रीन्द्रे पर्वतवरे भवता स्वामिनाधिष्टिते मम भवदनुग्रहेण वसतिरस्तु । हे भगवन्, ये मम
सखायः सुहृदस्ते तत्र किं न सन्ति अवश्यं सन्त्येव । मादृशाः श्रीशिवभक्तिरसामृत-
सिक्तचेतसस्तत्र शैले सन्त्येव । किं वान्येऽपि तत्र कैलासे पर्वतेन्द्रे गवया मृगविशेषाः
कपयो वानराः अन्येऽपि कुरङ्गा मृगास्तत्र सखायः किं न सन्त्येव । अयं भावः - यः
पर्वतेन्द्रः कैलासः श्रीशिवचरणाम्भोजरजःपवित्रितस्थलस्तत्र गवयैः कपिभिः कुरङ्गैः
सह वासोऽप्यन्याभ्यः सुरभूमिभ्यो देवसभाधिष्ठिताभ्योऽधिकानन्दप्रदो मम रोचते ।
अत्र रसवदलंकारो ध्वन्यते ॥
 
वाचाममी न विषये विषयेषु येषु
 
तृष्णान्वभावि विषमा विषमाकिरन्ती ।
तन्मां भजोज्ज्वलविलोलविलोचनान्त-
विन्यासभासुरसुधारसुधारसेन ॥ ३२ ॥
 
-
 
अमी विषयाः पञ्चेन्द्रियानुभूताः शब्दाद्या भोगा वाचां विषये गोचरे न सन्ति ।
अमी के इत्याह - विषं गरलमासमन्तात्किरन्ती विकिरन्ती तृष्णा येषु विषयेषु म
यान्वभावि अनुभूता । तत्तस्मात्कारणात् हे स्वामिनू, उज्ज्वलो धवलो विलोलश्च
यो नयनान्तः । नेत्रत्रिभागावलोकनरूप इत्यर्थः । तस्य विन्यासः पातः स एव भा-
सुरः सुधारः शोभनधारः सुधारसः पीयूषरसस्तेन मां पूर्वोक्तविषदग्धं तृष्णातुरं भज ।
दयस्वेत्यर्थः ॥
 
नानुग्रहस्तव विना त्वयि भक्तियोगं
 
नानुग्रहं तव विना त्वयि भक्तियोगः ।
बीजप्ररोहवदसावनयोर्न कस्य
 
११७
 
भूत्यै परस्परनिमित्तनिमित्तिभावः ॥ ३३ ॥
 

 
अत्र एवशब्द आर्थः । हे स्वामिन्, तव भक्तियोगमेव विना तवानुग्रहः प्रसादो न
भवति । तथा तवैवानुग्रहं विना त्वयि भक्तियोगो न भवति । अनयोस्तवानुग्रहभक्ति-
योगयोर्बीजप्ररोहवद्वीजाङ्कुरवदसौ परस्परं निमित्तनिमित्तिभावः कार्यकारणभावः कस्य
न भूत्यै विभूत्यै भवति । यथा बीजादङ्कुरोत्पत्तिः अङ्कुरादपि प्रवर्धमानाद्बीजोत्पत्तिरेवं
 
भवत्प्रसादभक्तियोगयोरपीत्यर्थः ॥
 
१. 'भास्वर' क.
 
Digitized by Google