2023-02-23 21:27:18 by ambuda-bot
This page has not been fully proofread.
१९६
काव्यमाला ।
चित्तं भवगुणगणस्मरणव्रतं च
भूयो भवन्ति मम चेदहहास्मि धन्यः ॥ २९ ॥
अतिशयेन बहु भूयः । क्रियाविशेषणमेतत् । एतानि त्रीणि भूयो नितरां त्वदासक्ता-
नि चेद्भवन्ति तर्ह्यहं धन्यो नितरां भाग्यवानस्मि । अहह आनन्दे । "अहहेत्यद्भुते खेदे
परिक्लेशप्रहर्षयोः । संबोधनेऽपि' इति मेदिनी" इति रायमुकुट्याम् । एतानि त्रीणि कानि ।
पाणी वाणी चित्तं च । पाणी हस्तौ कथंभूतौ । भूयो नितरां त्वञ्चरणपङ्कजरजोव्याप्तौ ।
वाणी कथंभूता । भूयो भवच्चरितानां त्रिपुरवधादीनां चर्वणमास्वादनं तेन गर्विता साहं -
कारा । तथा चित्तं किंभूतम् । भूयो नितरां भवद्गुणगणानां स्मरणं तदेव व्रतमवश्यक-
र्तव्यं यस्य तत् । यथा च मम वाङ्मनः कायाः श्रीशिवभट्टारकचरणाब्जसेवारसासक्ताः
स्युस्तथा आशासे इत्यर्थः । एतद्वृत्ताभिप्रायेण च ममापि गाथाचतुष्टयम् – 'शंकरपूज-
ननिरतौ पाणी शर्वस्य तीर्थगौपादौ । शंभुकथा श्रवणपरौ कर्णो नित्यं च भूयास्ताम् ॥',
'हरमूर्ति दर्शनपरं चक्षुर्भवपादवासनाघ्रायि । घ्राणं रसनं च मम श्रीकण्ठगुणाभिधायकं
भूयात् ॥', 'नीलगलस्पर्शवशान्माद्यतु मम संततं च त्वक् । शिवचिन्तनकारि पर चित्तं
नित्यं च भूयान्मे ॥', 'किमपरमधुना वक्ष्ये यत्कर्म कृतं करोमि कर्तास्मि । शुभमशुभं
वा कृपया तस्यैव शिवार्चनं भूयात् ॥' इति ॥
भिक्षाशनोऽपि भगवंस्त्वमकिंचनोऽपि
जीर्णश्मशाननिलयोऽपि दिगम्बरोऽपि ।
किं वापरं वरद घस्मर भस्मरूक्ष-
गात्रोऽपि सन्मम विभुः प्रतिजन्म भूयाः ॥ ३० ॥
हे भगवन् वरद, तथा हे घस्मर प्रलयकाले त्रिजगद्भक्षक परम शिव, किं वापर-
मन्यहूमः । भिक्षैव माधुकरी भिक्षैवाशनं यस्य स तादृशोऽपि, तथा अकिंचनोऽपि न
विद्यते किंचन यस्य स दरिद्रोऽपि, तथा जीर्णे पुराणं च तच्छ्रशानं पितृवनमालयो नि-
वासो यस्य स तादृशोऽपि, तथा दिगम्बरोऽपि दिग्वासा अपि तथा भस्मरूक्षगा-
त्रोऽपि भस्मना रूक्षं गात्रं कलेवरं यस्य स तादृशोऽपि सन् प्रतिजन्म जन्मनि जन्मान त्वं
त्वमेव विभुः स्वामी मम भूयाः । एतद्वृत्तानुसारेण ममाप्येकं वृत्तम् – 'लक्ष्मीकान्त-
मुरःस्थकौस्तुभमणि भ्राजिष्णुपक्षावलौ राजन्तं गरुडे सुरालयकृतावासं भजन्तेऽपरे ।
ञ्चितस्तु दिगम्बरे स्मरहरे स्फारास्थिमालाधरे पादाब्जश्रितशोक्करे पितृवनागारे नि-
लीनं सदा ॥" इति ॥
याचे न किंचिदपरं वसतिर्गिरीन्द्रे
कैलासनाम्नि भैवदध्युषिते ममास्तु ।
१. 'च' ख. २. शाकरो वृष: ३. 'भवताध्युषिते' ख,
Digitized by Google