This page has been fully proofread once and needs a second look.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
११५
 
स्मरणेन घूर्णितमत्युत्कण्ठया तत्रैव घूर्णच्चेतो मनो यस्य स तादृशस्य भक्तजनस्य ।

एतत्क्व प्राक्तनानेकजन्मार्जितपुण्यपरम्परया लभ्यम् । तथा कुमहीपतीनां कुनृपाणामप्ग्रे

याचनया दीनं मुखं क्व । अत्यन्तगर्ह्यमित्यर्थः ॥
 

 
नेत्रत्वमीश तव मूर्तिविलोकनेषु

वाक्त्वं भवञ्चरितचर्वणविभ्रमेषु ।

त्वत्संकथा श्रवणकर्मणि कर्णभाव-

मिच्छन्ति गन्तुमै[^१]मपराणि ममेन्द्रियाणि ॥ २७ ॥
 

 
हे ईश जगदधीश, ममापराणि नेत्रेन्द्रियादन्यानि कर्णादीनि तव स्वच्छस्य निष्क-

लस्यापि दीनानुकम्पया सकलमूर्तेर्मूर्तिविलोकनेषु देवप्रतिमादर्शनेषु नेत्रत्वं गन्तुमि

च्छन्ति । वयमप्येतद्दर्शनोत्सवे नेत्रभिवाम इत्यर्थः । तथा मम वागिन्द्रियादपराणि

नेत्रादीनीन्द्रियाणि हे स्वामिन्, भवञ्चरितं त्रिपुरदाहकालदहनाद्यद्भुतं कर्म तच्चर्वणमा-

स्वादनं तद्विभ्रमेषु विलासेषु वाक्त्वं जिह्वात्वं गन्तुमिच्छन्ति । अत्रापि प्राग्वत् ।

तथा मम कर्णादपराणीन्द्रियाणि नेत्रादीनि च त्वत्संकथा श्रवणकर्मणि कर्णभावं गन्तु-

मिच्छन्ति । रसवदलंकारः ॥
 

 
यच्छन्त्रचामरसिता कृतिनां विभूतिः
 

स स्वल्प एवं भगवन्भवतः प्रसादः ।
त्वै

[^२]त्व
त्साम्यमेव तु सतामधिकस्ततोऽपि
 

यद्वल्कलं च वसनं विपिनं च वासः ॥ २८ ॥
 

 
कृतिनां पुण्यवतां छत्रमातपत्रं च चामरं च ताभ्यां सिता धवला विभूतिर्यद्भवति

हे भगवन् त्रिजगदधीश, स तव प्रसादस्तेषां स्वल्प एवात्यल्प एव । हे भगवन्, तु प-

क्षान्तरे । सतां विपश्चितां धन्यानां त्वत्साम्यं भवत्सायुज्यं ततोऽपि पूर्वस्मात्प्रसादादप्य-

धिकं भवति । अत्यन्तदुर्लभत्वात् । अधुना ततोऽप्युत्तरपक्षमाह - ततोऽपि तस्मादपि

भवत्सायुज्यावाप्तेरप्यधिकोऽयमेव महान्प्रसादः यद्भवच्चरणाम्बुजध्यानासक्तचेतसः शरी-

रिणो वल्कलं भूर्जत्वग्वसनं वस्त्रम् तथा विपिनं वास आवासो यद्भवति । भवत्सायुज्य

परानन्दादपि गाढतरभवत्सेवारसमहामहनीयपरानन्द इति भावः । तथा चैतदाशयानुसारेण

ममापि वृत्तम् – 'वीक्षे न यत्र नयनत्रितयाभिरामं राकेन्दुतर्जि मुखमीश्वर तावकीनम् ।

दासस्य नाथ कृपया भवता वितीर्णेणं सायुज्यमीदृगपि वेद्मि विडम्बनं मे ॥" इति ॥

 
त्वत्पादपङ्कजरजस्श्छुरितौ च पाणी
 

वाणी भवच्चरितचर्वणगर्विता च ।
 

 
[^
]. 'इतराणि' ख.
[^
]. 'तत्साम्यं' ख.
 
Digitized by Google