2023-02-23 21:27:18 by ambuda-bot
This page has not been fully proofread.
९ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
११५
स्मरणेन घूर्णितमत्युत्कण्ठया तत्रैव घूर्णच्चेतो मनो यस्य स तादृशस्य भक्तजनस्य ।
एतत्व प्राक्तनानेकजन्मार्जितपुण्यपरम्परया लभ्यम् । तथा कुमहीपतीनां कुनृपाणामप्रे
याचनया दीनं मुखं क्व । अत्यन्तगर्ह्यमित्यर्थः ॥
नेत्रत्वमीश तव मूर्तिविलोकनेषु
वाक्त्वं भवञ्चरितचर्वणविभ्रमेषु ।
त्वत्संकथा श्रवणकर्मणि कर्णभाव-
मिच्छन्ति गन्तुमैपराणि ममेन्द्रियाणि ॥ २७ ॥
हे ईश जगदधीश, ममापराणि नेत्रेन्द्रियादन्यानि कर्णादीनि तव स्वच्छस्य निष्क-
लस्यापि दीनानुकम्पया सकलमूर्तेर्मूर्तिविलोकनेषु देवप्रतिमादर्शनेषु नेत्रत्वं गन्तुमि
च्छन्ति । वयमप्येतद्दर्शनोत्सवे नेत्रभिवाम इत्यर्थः । तथा मम वागिन्द्रियादपराणि
नेत्रादीनीन्द्रियाणि हे स्वामिन्, भवञ्चरितं त्रिपुरदाहकालदहनाद्यद्भुतं कर्म तच्चर्वणमा-
स्वादनं तद्विभ्रमेषु विलासेषु वाक्त्वं जिह्वात्वं गन्तुमिच्छन्ति । अत्रापि प्राग्वत् ।
तथा मम कर्णादपराणीन्द्रियाणि नेत्रादीनि च त्वत्संकथा श्रवणकर्मणि कर्णभावं गन्तु-
मिच्छन्ति । रसवदलंकारः ॥
यच्छत्रचामरसिता कृतिनां विभूतिः
स स्वल्प एवं भगवन्भवतः प्रसादः ।
त्वैत्साम्यमेव तु सतामधिकस्ततोऽपि
यद्वल्कलं च वसनं विपिनं च वासः ॥ २८ ॥
कृतिनां पुण्यवतां छत्रमातपत्रं च चामरं च ताभ्यां सिता धवला विभूतिर्यद्भवति
हे भगवन् त्रिजगदधीश, स तव प्रसादस्तेषां स्वल्प एवात्यल्प एव । हे भगवन्, तु प-
क्षान्तरे । सतां विपश्चितां धन्यानां त्वत्साम्यं भवत्सायुज्यं ततोऽपि पूर्वस्मात्प्रसादादप्य-
धिकं भवति । अत्यन्तदुर्लभत्वात् । अधुना ततोऽप्युत्तरपक्षमाह - ततोऽपि तस्मादपि
भवत्सायुज्यावाप्तेरप्यधिकोऽयमेव महान्प्रसादः यद्भवच्चरणाम्बुजध्यानासक्तचेतसः शरी-
रिणो वल्कलं भूर्जत्वग्वसनं वस्त्रम् तथा विपिनं वास आवासो यद्भवति । भवत्सायुज्य
परानन्दादपि गाढतरभवत्सेवारसमहामहनीयपरानन्द इति भावः । तथा चैतदाशयानुसारेण
ममापि वृत्तम् – 'वीक्षे न यत्र नयनत्रितयाभिरामं राकेन्दुतर्जि मुखमीश्वर तावकीनम् ।
दासस्य नाथ कृपया भवता वितीर्णे सायुज्यमीदृगपि वेद्मि विडम्बनं मे ॥" इति ॥
त्वत्पादपङ्कजरजस्छुरितौ च पाणी
वाणी भवच्चरितचर्वणगर्विता च ।
१. 'इतराणि' ख. २. 'तत्साम्यं' ख.
Digitized by Google