This page has been fully proofread once and needs a second look.

विद्यावानवतारकः समुचितः सूर्योदयेऽर्धोदये

धेनूनां प्रददौ सहस्रममलं चक्रे यशश्चन्द्रिकाम् ॥

तत्पुत्रः सुमनोहरो गुरुवरो यज्ञैर्महादक्षिणै-

रिन्द्रत्वप्ग्रहशङ्कया सुरपतेर्भीतितिं ततान स्फुटम् ।

तत्पुत्रः स च मोचकः समभवद्वेदान्तसिद्धान्तवि-
ड्

द्ध्
यायं ध्यायमियाय देवसदनं देवं मृडानीपतिम् ॥

स श्रीमानुदपादि योधकगुरुर्यद्दीक्षया भूभुजः
 

प्राज्यं राज्यमपास्तवैरिनिकराः सम्यक्विचिरं चक्रिरे ।

भ्राता यस्य बभूव सर्वविदितः श्रीकण्ठराजानकः
 

शापानुप्ग्रहकृद्विचारचतुरः यः सिद्धतां शिश्रिये ॥

योधाचार्यसुतोऽर्जुनोऽजनि महालक्ष्मी निवासो यतो

जातोऽहं शितिकण्ठकोऽन्वयमहं प्रापं गुरोः '[^१]श्रीवरात् ।

नानाशास्त्रविनिर्णयाय बहुशस्तीर्थान्तराण्यभ्रमं

पूजां गूर्जरनाथमह्रादसुरत्राणादवापं पराम् ॥

श्रीगोरक्षपुरेऽधिगम्य विबुधात्तर्कं परं कर्कशं

श्रीनाथादधिकाशि शेषरचितं मीमांसया मांसलम् ।

भाष्यं श्रीवरदेश्वराच्च जयिना कश्मीरभूमीभुजा
 

श्रीकण्ठेन सहोदरेण च यतः संप्रार्थितोऽस्मि स्वयम् ॥

यो बालबोधिन्यभिषांधां बुधेन्द्रो जगद्धरो यां विततान वृत्तिम् ।

तन्नप्तृकन्यातनयातनूजो व्याख्यामि तां श्रीशितिकण्ठकोऽल्पम् ॥

तत्संप्रार्थनयानया नयविदां दुर्गेऽपि मार्गे मया
 

चापल्यं यदकारि तत्कृतधियो यूयं क्षमध्वं बुधाः ।

हारंहारमहार्यमोहमहितं शब्दार्थयोः संगतिं

कारंकारमिदं भवद्भिरभितो रक्ष्यं गृहीतक्षणैः ॥

ग्रामेग्रामेऽग्रहारान्मठधरणियुतान्कर्मठेभ्यः कै[^२]कठेभ्यः
 

सभ्येभ्यो यो व्यतारीद्रिपुगुरुनगरीर्यो गरीयानभैत्सीत् ।

अक्षाण्यक्षीणशक्तिर्व्यवहृतिचतुरो यो व्यजैषीच्च तस्मि-

न्भूजानौ हस्सनाख्ये भुवमवति मया तन्यते प्ग्रन्थ एषः ॥
 

 
[^
]. तृतीयराजतरङ्गिणीप्रणेता जोनराजशिष्यः श्रीवरपण्डितोऽयमेव स्यात्.
[^
]. कठ

शाखाध्यायिभ्यो ब्राह्मणेभ्यः.
 
Digitized by Google