This page has not been fully proofread.

विद्यावानवतारकः समुचितः सूर्योदयेऽर्धोदये
धेनूनां प्रददौ सहस्रममलं चक्रे यशश्चन्द्रिकाम् ॥
तत्पुत्रः सुमनोहरो गुरुवरो यज्ञैर्महादक्षिण-
रिन्द्रत्वप्रहशङ्कया सुरपतेर्भीति ततान स्फुटम् ।
तत्पुत्रः स च मोचकः समभवद्वेदान्तसिद्धान्तवि-
ड्यायं ध्यायमियाय देवसदनं देवं मृडानीपतिम् ॥
स श्रीमानुदपादि योधकगुरुर्यद्दीक्षया भूभुजः
 
प्राज्यं राज्यमपास्तवैरिनिकराः सम्यक्विरं चक्रिरे ।
भ्राता यस्य बभूव सर्वविदितः श्रीकण्ठराजानकः
 
शापानुप्रहकृद्विचारचतुरः यः सिद्धतां शिश्रिये ॥
योधाचार्यसुतोऽर्जुनोऽजनि महालक्ष्मी निवासो यतो
जातोऽहं शितिकण्ठकोऽन्वयमहं प्रापं गुरोः 'श्रीवरात् ।
नानाशास्त्रविनिर्णयाय बहुशस्तीर्थान्तराण्यभ्रमं
पूजां गूर्जरनाथमझदसुरत्राणादवापं पराम् ॥
श्रीगोरक्षपुरेऽधिगम्य विबुधात्तर्क परं कर्कशं
श्रीनाथादधिकाशि शेषरचितं मीमांसया मांसलम् ।
भाष्यं श्रीवरदेश्वराच्च जयिना कश्मीरभूमीभुजा
 
श्रीकण्ठेन सहोदरेण च यतः संप्रार्थितोऽस्मि स्वयम् ॥
यो बालबोधिन्यभिषां बुधेन्द्रो जगद्धरो यां विततान वृत्तिम् ।
तन्नप्तृकन्यातनयातनूजो व्याख्यामि तां श्रीशितिकण्ठकोऽल्पम् ॥
तत्संप्रार्थनयानया नयविदां दुर्गेऽपि मार्गे मया
 
चापल्यं यदकारि तत्कृतधियो यूयं क्षमध्वं बुधाः ।
हारंहारमहार्यमोहमहितं शब्दार्थयोः संगतिं
कारंकारमिदं भवद्भिरभितो रक्ष्यं गृहीतक्षणैः ॥
ग्रामेग्रामेऽग्रहारान्मठधरणियुतान्कर्मठेभ्यः कैठेभ्यः
 
सभ्येभ्यो यो व्यतारीद्रिपुगुरुनगरीर्यो गरीयानभैत्सीत् ।
अक्षाण्यक्षीणशक्तिर्व्यवहृतिचतुरो यो व्यजैषीच्च तस्मि-
न्भूजानौ हस्सनाख्ये भुवमवति मया तन्यते प्रन्थ एषः ॥
 
१. तृतीयराजतरङ्गिणीप्रणेता जोनराजशिष्यः श्रीवरपण्डितोऽयमेव स्यात्. २. कठ
शाखाध्यायिभ्यो ब्राह्मणेभ्यः.
 
Digitized by Google