This page has been fully proofread once and needs a second look.

११४
 
काव्यमाला ।
 
स्तेन नित्यतृप्तस्तादृशम् । तथा प्रत्याहृतानि प्रत्याहाराख्ययोगाङ्गेन प्रत्याहृतानीन्द्रि-

याणि येन स तम् । तथा अवाप्तं समाधेरात्ममनसोरैक्यस्य सौख्यं परमानन्दो येन

तादृशम् ॥ हरिणेक्षणा किंभूता । श्रीखण्डचन्दनं श्रीखण्डारूख्यश्चन्दनविशेषस्तेन निघू-
घृ
ष्टानि यानि कुरङ्गनाभिः कस्तूरी, कर्पूरं, कुङ्कुमं कश्मीरजं चैतानि तेषां करम्बो मे-

लनं तेन शुभो रम्योऽङ्गरागो यस्य तत् । तथा उद्यन्नवीनं कदलीदलं कदलीलतादलं तद्व-

त्सौकुमार्यं यस्य तत् । तथा अनङ्गः काम एव नटस्तस्य मङ्गलार्थं रङ्गं स्थानभूतमङ्गम् ।

जातावेकवचनम् । बिभ्रती धारयन्ती ॥ पुनः किंभूता हरिणेक्षणा । फुल्लं यदरविन्दं

नलिनं तत्सदृशं वदनं यस्याः सा । तथा विकसन्ति यानि शिरीषाणि शिरीषकुसु-

मानि तेषां माला तत्सदृशे भुजे भुजलते यस्याः सा । तथाभिनवं नवोत्पलं यन्नी-

लसरोजं नीलोत्पलं तत्तुल्ये नेत्रे यस्याः । अत एव माधवेन वसन्तेन । 'माधवस्तु व

सन्ते स्याद्वैशाखे गरुडध्वजे' इति विश्वः । कुसुमैररविन्दशिरीषनीलोत्पलैः कुसुमा-

युधस्य कामस्य स्वसख्युर्हिताय । जगद्वशीकरणरूपं हितं तदर्थमप्रतिहतमनातं ब्र-

ह्मास्त्रं पाशुपतास्त्रं विहितेव । ब्रह्मास्त्रमित्यस्य 'वेदाः प्रमाणं श्रुतयः प्रमाणम्' इतिव-

दजहल्लिङ्गता ॥ 'हे नाथ स्वामिन्,' इति सस्नेहमतिकोमलमालपन्ती । तथा जीवित-

हरेति जीवितमपि हरति क्षणमपि वियोगेन जीवितहरस्तत्संबोधनं हे जीवितहरेति

सकोपम्, तथा दयापर दयालो इति सप्रेम, अतिकोमलमालपन्ती तथा गाढानु-

रागेण दृढप्रेम्णा विवृतः प्रकटीकृतोऽखिलो गूढो भावो निजाभिप्रायो यत्र तत् । क्रिया-

विशेषणमेतत् । एवं वचसामविषयैरगोचरैरनिर्वाच्यैर्विलासैर्विभ्रमैरावर्जयन्ती वशीकु-

र्वती । प्रियतममन इत्यर्थः ॥ किं वा परमन्यङ्क्र<flag></flag>मः – कुपितेत्यादि । हरिणेक्षणा किं

भूता। कुपितः प्रेयसोः परस्परप्रेम्णि कतिपयक्षणविलम्बात्कुपितः अत एव निर्घृणः, नि-

र्दयो यः पञ्चबाण: कामस्तस्य बाणानां पश्चानामोघः समूहस्तेन भिन्नं हृदयं यस्याः सा ।

एवंभूता सती गाढं दृढं परिरभ्याश्लिष्य मुग्धाजनस्य बालाजनस्य सहजां स्वाभावि
कीं
लज्
जां त्रपामवजित्य सान्द्रमुत्कण्ठया घनं कृत्वा अधरामृतमधरपानामृतमर्पयन्ती । प्रिय-

तमस्येति शेषः । केचित्तु 'सहजां स्वाभाविक लकीं लज्जामवजित्य कामावेगान्मुग्धाजनस्य

बालाजनस्याप्यधरामृतमर्पयन्तीति व्याचख्युः' तद्विचार्यम् । नाथेति पूर्वोदीरितवृत्ते

एतदर्थप्रयोजनात् ॥ पञ्चभिः कुलकम् ॥
 

 
हेलावलन्मलयमारुतकम्पितानां
 

शीर्णैः फलैः स्वयमरण्यमहीरुहाणाम् ।

वृत्तिर्हरस्मरणघूर्णितचेतसः क्व
 

दीनं मुखं क्व च पुरः कुमहीपतीनाम् ॥ २६ ॥
 

 
हेलया शनैर्वलंश्चासौ मलयमारुतो दक्षिणानिलस्तेन कम्पितानामरण्यमहीरुहाणां

वनशाखिनां स्वयं शीर्णैः फलैर्वृत्तिः शरीरयात्रा क्व । कस्य । हरस्मरणधूर्णितचेतसः हर-
Digitized by Google