This page has not been fully proofread.

११४
 
काव्यमाला ।
 
स्तेन नित्यतृप्तस्तादृशम् । तथा प्रत्याहृतानि प्रत्याहाराख्ययोगाङ्गेन प्रत्याहृतानीन्द्रि-
याणि येन स तम् । तथा अवाप्तं समाधेरात्ममनसोरैक्यस्य सौख्यं परमानन्दो येन
तादृशम् ॥ हरिणेक्षणा किंभूता । श्रीखण्डचन्दनं श्रीखण्डारूयश्चन्दनविशेषस्तेन निघू-
ष्टानि यानि कुरङ्गनाभिः कस्तूरी, कर्पूरं, कुङ्कुमं कश्मीरजं चैतानि तेषां करम्बो मे-
लनं तेन शुभो रम्योऽङ्गरागो यस्य तत् । तथा उद्यन्नवीनं कदलीदलं कदलीलतादलं तद्व-
त्सौकुमार्य यस्य तत् । तथा अनङ्गः काम एव नटस्तस्य मङ्गलार्थ रङ्गं स्थानभूतमङ्गम् ।
जातावेकवचनम् । बिभ्रती धारयन्ती ॥ पुनः किंभूता हरिणेक्षणा । फुल्लं यदरविन्दं
नलिनं तत्सदृशं वदनं यस्याः सा । तथा विकसन्ति यानि शिरीषाणि शिरीषकुसु-
मानि तेषां माला तत्सदृशे भुजे भुजलते यस्याः सा । तथाभिनवं नवोत्पलं यन्नी-
लसरोजं नीलोत्पलं तत्तुल्ये नेत्रे यस्याः । अत एव माधवेन वसन्तेन । 'माधवस्तु व
सन्ते स्याद्वैशाखे गरुडध्वजे' इति विश्वः । कुसुमैररविन्दशिरीषनीलोत्पलैः कुसुमा-
युधस्य कामस्य स्वसख्युहिताय । जगद्वशीकरणरूपं हितं तदर्थमप्रतिहतमनाइतं ब्र-
ह्मास्त्रं पाशुपतास्त्रं विहितेव । ब्रह्मास्त्रमित्यस्य 'वेदाः प्रमाणं श्रुतयः प्रमाणम्' इतिव-
दजहल्लिङ्गता ॥ 'हे नाथ स्वामिन्,' इति सस्नेहमतिकोमलमालपन्ती । तथा जीवित-
हरेति जीवितमपि हरति क्षणमपि वियोगेन जीवितहरस्तत्संबोधनं हे जीवितहरेति
सकोपम्, तथा दयापर दयालो इति सप्रेम, अतिकोमलमालपन्ती तथा गाढानु-
रागेण दृढप्रेम्णा विवृतः प्रकटीकृतोऽखिलो गूढो भावो निजाभिप्रायो यत्र तत् । क्रिया-
विशेषणमेतत् । एवं वचसामविषयैरगोचरैरनिर्वाच्यैर्विलासर्विभ्रमैरावर्जयन्ती वशीकु-
र्वती । प्रियतममन इत्यर्थः ॥ किं वा परमन्यङ्क्रमः – कुपितेत्यादि । हरिणेक्षणा किं
भूता। कुपितः प्रेयसोः परस्परप्रेम्णि कतिपयक्षणविलम्बात्कुपितः अत एव निर्घृणः, नि-
र्दयो यः पञ्चबाण: कामस्तस्य बाणानां पश्चानामोघः समूहस्तेन भिन्नं हृदयं यस्याः सा ।
एवंभूता सती गाढं दृढं परिरभ्याश्लिष्य मुग्धाजनस्य बालाजनस्य सहजां स्वाभाविक
लजां त्रपामवजित्य सान्द्रमुत्कण्ठया घनं कृत्वा अधरामृतमधरपानामृतमर्पयन्ती । प्रिय-
तमस्येति शेषः । केचित्तु 'सहजां स्वाभाविक लजामवजित्य कामावेगान्मुग्धाजनस्य
बालाजनस्याप्यधरामृतमर्पयन्तीति व्याचख्युः' तद्विचार्यम् । नाथेति पूर्वोदीरितवृत्ते
एतदर्थप्रयोजनात् ॥ पञ्चभिः कुलकम् ॥
 
हेलावलन्मलयमारुतकम्पितानां
 
शीर्णैः फलैः स्वयमरण्यमहीरुहाणाम् ।
वृत्तिर्हरस्मरणघूर्णितचेतसः क्व
 
दीनं मुखं क्व च पुरः कुमहीपतीनाम् ॥ २६ ॥
 
हेलया शनैर्वलंश्चासौ मलयमारुतो दक्षिणानिलस्तेन कम्पितानामरण्यमहीरुहाणां
वनशाखिनां स्वयं शीर्णैः फलैर्वृत्तिः शरीरयात्रा क्व । कस्य । हरस्मरणधूर्णितचेतसः हर-
Digitized by Google