This page has been fully proofread once and needs a second look.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
११३
 
गज्जयित्वाइंकारं वा बिभर्ति सर्वंकषः सर्वेवं कषति व्याप्नोतीति सर्वत्रिजगजयित्वरूपः प्र

सादोऽनुग्रहस्तवैव स तस्य कामस्य विजयते सर्वोत्कृष्टो भवति ॥ युग्मम् ॥

 
श्रीखण्डचन्दननिघृष्टकुरङ्गनाभि-

कर्पूरकुङ्कुमकरम्बशुभाङ्गरागम् ।

उद्यन्नवीनकदलीदलसौकुमार्
 
यं
बिभ्रत्यनङ्गनट मङ्गलरङ्गमङ्गम् ॥ २१ ॥

 
फुल्लारविन्दवदना विकसच्छिरीष-

मालाभुजाभिनवनीलसरोजनेत्रा ।
 

ब्रह्मास्त्रमप्रतिहतं विहिता हिताय
 

पुष्पायुधस्य कुसुमैरिव माधवेन ॥ २२ ॥
 

 
नाथेति जीवितहरेति दयापरेति

सप्रेमकोपमतिकोमलमालपन्ती ।

गाढानुरागविष्टताखिलगूढभाव-

मावर्जयन्त्यविषयैर्वचसां विलासैः ॥ २३ ॥
 

 
किं वापरं कुपितनिर्घृणपञ्चबाण-

बाणौघमिन्नहृदया परिरम्य गाढम् ।

मुग्धाजनस्य सहजामवजित्य लज्जा-

मौत्सुक्यसान्द्रमधरामृतमर्पयन्ती ॥ २४ ॥
 

 
आक्षिप्तसिन्धुमथनोत्थमहामृतौघ-

भावत्कभक्तिरसपारणनित्यतृप्तम् ।

प्रत्याहृतेन्द्रियमवाप्तसमाधिसौख्यं
 

न त्वत्परं हरति सा है[^१]हरिणेक्षणापि ॥ २५ ॥

( पञ्चभिः कुलकम् )
 

 
श्रीखण्डेति पञ्चभिः कुलकम् । हे स्वामिन्, विशेषणविशिष्टा सा प्रसिद्धा हरिणेक्ष-

णापि मृगाक्ष्यपि त्वयि परमेश्वरे परमासक्तं न हरति न वशीकर्तुतुं क्षमते। कं त्वत्परम् ।

आक्षिप्तेत्यादि । आक्षिप्तो निर्जितः सिन्धुमथनोत्थः क्षीरोदमथनोत्थो महानमृतौघः

सुधाप्रवाहो येन स तादृशो यो भावत्कभक्तिरसो भवदीयभावनारसस्तस्य पारणमाहार-

 
[^
]. 'हरिणायताक्षी' क.
१५
 
Digitized by Google