This page has not been fully proofread.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
११३
 
गजयित्वाइंकारं वा बिभर्ति सर्वकषः सर्वे कषति व्याप्नोतीति सर्वत्रिजगजयित्वरूपः प्र
सादोऽनुग्रहस्तवैव स तस्य कामस्य विजयते सर्वोत्कृष्टो भवति ॥ युग्मम् ॥
श्रीखण्डचन्दननिघृष्टकुरङ्गनाभि-
कर्पूरकुङ्कुमकरम्बशुभाङ्गरागम् ।
उद्यन्नवीनकदलीदलसौकुमार्य
 
बिभ्रत्यनङ्गनट मङ्गलरङ्गमङ्गम् ॥ २१ ॥
फुलारविन्दवदना विकसच्छिरीष-
मालाभुजाभिनवनीलसरोजनेत्रा ।
 
ब्रह्मास्त्रमप्रतिहतं विहिता हिताय
 
पुष्पायुधस्य कुसुमैरिव माधवेन ॥ २२ ॥
 
नाथेति जीवितहरेति दयापरेति
सप्रेमकोपमतिकोमलमालपन्ती ।
गाढानुरागविष्टताखिलगूढभाव-
मावर्जयन्त्यविषयैर्वचसां विलासैः ॥ २३ ॥
 
किं वापरं कुपितनिर्घृणपञ्चबाण-
बाणौघमिन्नहृदया परिरम्य गाढम् ।
मुग्धाजनस्य सहजामवजित्य लज्जा-
मौत्सुक्यसान्द्रमधरामृतमर्पयन्ती ॥ २४ ॥
 
आक्षिप्तसिन्धुमथनोत्थमहामृतौघ-
भावत्कभक्तिरसपारणनित्यतृप्तम् ।
प्रत्याहृतेन्द्रियमवाप्तसमाधिसौख्यं
 
न त्वत्परं हरति सा हैरिणेक्षणापि ॥ २५ ॥
( पञ्चभिः कुलकम् )
 
श्रीखण्डेति पञ्चभिः कुलकम् । हे स्वामिन्, विशेषणविशिष्टा सा प्रसिद्धा हरिणेक्ष-
णापि मृगाक्ष्यपि त्वयि परमेश्वरे परमासक्तं न हरति न वशीकर्तु क्षमते। कं त्वत्परम् ।
आक्षिप्तेत्यादि । आक्षिप्तो निर्जितः सिन्धुमथनोत्थः क्षीरोदमथनोत्थो महानमृतौघः
सुधाप्रवाहो येन स तादृशो यो भावत्कभक्तिरसो भवदीयभावनारसस्तस्य पारणमाहार-
१. 'हरिणायताक्षी' क.
१५
 
Digitized by Google