This page has been fully proofread once and needs a second look.

११२
 
काव्यमाला ।
 
युक्तं यदन्धयति यद्बघिरीकरोति
 

कोऽतिप्रसङ्ग इति तत्र न तर्कयामि ॥ १८ ॥
 

 
'चातके हरिणे पुंसि सारङ्गः शबले त्रिषु' इति मङ्गः खः। सारङ्गो हरिणः केतौ यस्य

स सारङ्गकेतुश्चन्द्रः । स मुकुटे यस्य स तत्संबोधनं हे सारङ्ग केतुमुकुट श्रीशंभो, शान्तः

शमं गतो रजोविकारो रजोगुणबिविकारी यस्य तत् तादृशं स्फुटं प्रकटमान्तरमन्धकारं

तमः। 'अन्धकारोऽस्त्रियाम्' इत्यमरः । आन्तरं तमः । अज्ञानरूपमित्यर्थः । पुरुषं यद-

न्धयति कार्याकार्यविवेकानवलोकेनान्धयति तदिदं युक्तम् । रजोविकारेण धूलिविका-

रेण युक्तं तमः पुरुषमन्धयत्येव । तदेवान्तरमन्धकारं पुरुषं यद्धिरीकरोत्येडीकरोति

स कोऽतिप्रसङ्गः । अतिशयेन प्रसक्तिरित्यर्थः । को भवति । बाह्यमन्धकारं रजसा

धूल्या विमिश्रं पुरुषमन्धयति, न तु बधिरीकरोति । एतत्त्वान्तरमज्ञानरूपं तमः पुरु-

मन्धं बधिरं च करोत्येवेत्यर्थः ॥
 

 
लीलाविलोलललनानयनान्तवास-

मासाद्य यः क्व न भनक्ति मनस्विनोऽपि ।

सोऽयं निविश्य विमले हृदये मदीये
 
घि

धि
ङ्यर्ममर्म न मिनन्भिनत्ति कथं मनोभूः ॥ १९ ॥

स्वामिन्नसन्तमिव तत्र वसन्तमेव
 

स त्वामवैति किमिदं यदि वा किमन्यत् ।

दग्धोऽपि यं पुनरवाप्य बिभर्ति गर्ने
 
सर्व
वं
सर्वं
कषो विजयते स तव प्रसादः ॥ २० ॥ (युग्मम्)

 
लीलाविलोलेति युग्मम् । यो मनोभूर्मनसिजः । मनोभूरिति साभिप्रायम् । न बहिः

कुतोऽप्यागत इति । लीलया विलासेन विलोलं तरलं यल्ललनानयनं कामिनीलोचनं

तस्यान्तोऽपाङ्गः स एव वासो निवासस्त मासाद्य प्राप्य मनस्विनोऽपि वयं संयतचित्ता

इति मानिनोऽपि क्व न भनक्ति । 'भञ्जो आमर्दने' धातुः । मनोभङ्गेन जयति । घिधिगस्तु ।

सोऽयं मनोभूः कामो विमले श्रीशिवभट्टार कभक्त्यासक्तत्वान्मलरहिते । अपिशब्द

आर्थः । विमले इत्येतदप्ग्रिमवृत्ते प्रकटयति । 'विपुले' इत्यपि पाठः । विमलेऽपि मदीये

हृदये निविश्य मर्ममर्म कथं न भिनत्ति । भिनत्त्येवेत्यर्थः । मनोभुवस्त्रिलोकविजयित्वा

दिति भावः ॥
 

 
हे स्वामिन्, कामो मनोभूस्तत्र मदीये हृदये विमलेऽपि वसन्तमेव त्वां विभुमसन्तमिव

असन्नवर्तमानस्तमसन्तमिव त्वां स्वामिनं यदवैति जानाति तदिदं किम् । यदि वा प

क्षान्तरे अथवा किमन्यत् । तत्त्वं तत्र ब्रूमः –यं प्रसादं तव पुनरवाप्य दग्धोऽपि भ

वन्नेत्राग्निना भस्मीकृतोऽपि स मनोभूर्यद्गर्वमहंकारं हरकिंकरलक्ष्यीकरणाहंकारं त्रिज-
Digitized by Google