This page has not been fully proofread.

११२
 
काव्यमाला ।
 
युक्तं यदन्धयति यद्बघिरीकरोति
 
कोऽतिप्रसङ्ग इति तत्र न तर्कयामि ॥ १८ ॥
 
'चातके हरिणे पुंसि सारङ्गः शबले त्रिषु' इति मङ्गः । सारङ्गो हरिणः केतौ यस्य
स सारङ्गकेतुश्चन्द्रः । स मुकुटे यस्य स तत्संबोधनं हे सार केतुमुकुट श्रीशंभो, शान्तः
शमं गतो रजोविकारो रजोगुणबिकारी यस्य तत् तादृशं स्फुटं प्रकटमान्तरमन्धकारं
तमः। 'अन्धकारोऽस्त्रियाम्' इत्यमरः । आन्तरं तमः । अज्ञानरूपमित्यर्थः । पुरुषं यद-
न्धयति कार्याकार्यविवेकानवलोकेनान्धयति तदिदं युक्तम् । रजोविकारेण धूलिविका-
रेण युक्तं तमः पुरुषमन्धयत्येव । तदेवान्तरमन्धकारं पुरुषं यद्वधिरीकरोत्येडीकरोति
स कोऽतिप्रसङ्गः । अतिशयेन प्रसक्तिरित्यर्थः । को भवति । बाह्यमन्धकारं रजसा
धूल्या विमिश्रं पुरुषमन्धयति, न तु बधिरीकरोति । एतत्त्वान्तरमज्ञानरूपं तमः पुरु-
वमन्धं बधिरं च करोत्येवेत्यर्थः ॥
 
लीलाविलोलललनानयनान्तवास-
मासाद्य यः क्व न भनक्ति मनस्विनोऽपि ।
सोऽयं निविश्य विमले हृदये मदीये
 
घिङ्यर्ममर्म न मिनन्ति कथं मनोभूः ॥ १९ ॥
स्वामिन्नसन्तमिव तत्र वसन्तमेव
 
स त्वामवैति किमिदं यदि वा किमन्यत् ।
दग्धोऽपि यं पुनरवाप्य बिभर्ति गर्ने
 
सर्वकषो विजयते स तव प्रसादः ॥ २० ॥ (युग्मम्)
लीलाविलोलेति युग्मम् । यो मनोभूर्मनसिजः । मनोभूरिति साभिप्रायम् । न बहिः
कुतोऽप्यागत इति । लीलया विलासेन विलोलं तरलं यल्ललनानयनं कामिनीलोचनं
तस्यान्तोऽपाङ्गः स एव वासो निवासस्त मासाद्य प्राप्य मनस्विनोऽपि वयं संयतचित्ता
इति मानिनोऽपि क्व न भनक्ति । 'भञ्जो आमर्दने' धातुः । मनोभङ्गेन जयति । घिगस्तु ।
सोऽयं मनोभूः कामो विमले श्रीशिवभट्टार कभक्त्यासक्तत्वान्मलरहिते । अपिशब्द
आर्थः । विमले इत्येतदप्रिमवृत्ते प्रकटयति । 'विपुले' इत्यपि पाठः । विमलेऽपि मदीये
हृदये निविश्य मर्ममर्म कथं न भिनत्ति । भिनत्त्येवेत्यर्थः । मनोभुवस्त्रिलोकविजयित्वा
दिति भावः ॥
 
हे स्वामिन्स कामो मनोभूस्तत्र मदीये हृदये विमलेऽपि वसन्तमेव त्वां विभुमसन्तमिव
असनवर्तमानस्तमसन्तमिव त्वां स्वामिनं यदवैति जानाति तदिदं किम् । यदि वा प
क्षान्तरे अथवा किमन्यत् । तत्त्वं तत्र ब्रूमः –यं प्रसादं तव पुनरवाप्य दग्धोऽपि भ
वन्नेत्राग्निना भस्मीकृतोऽपि स मनोभूर्यद्गर्वमहंकारं हरकिंकरलक्ष्यीकरणाहंकारं त्रिज-
Digitized by Google