This page has been fully proofread once and needs a second look.

९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।.
 
चित्तं नतापदुपतापहृतिप्रवृत्ति
तिं
भीताभयार्पणपणप्रवणां च वाणीम् ।

लोकोपकारपरतन्त्रमिदं वपुश्च
 
१११
 

कस्त्वत्परः परमकारुणिको बिभर्ति ॥ १६ ॥
 

 
हे स्वामिन, परमकारुणिकोऽत्यन्तदयालुस्त्वत्पर स्त्वदन्यः कः । नतानां भक्तिप्रहाह्रा-

णामापज्जन्मजरामरणव्याधिश्च, उपतापश्च त्रिविध आध्यात्मिकादितापः । यद्वा आ-

पदा य उपतापस्तस्य हृतौ हरणे प्रवृत्तं चित्तं मनो बिभर्ति । त्वमेको दयालुनिस्त्रिजग-

दुद्धरणैकहेतुरित्यर्थः । तथा त्वत्परः को भीतानां करालकालभ्रुकुटीत्रस्तानां यदभया-

र्पणं स एव पप्पोणो नियमस्तत्र प्रवणा लीना प्रगल्भा वा वाणी तां च को बिभर्ति ।

तथा त्वत्परः को लोकानां त्रयाणां लोकानां य उपकारस्त्रिभुवन विध्वंसकारित्रिपुरान्ध-

कासुरादिवर्धधेनाभयदानं तत्र परतन्त्रं परविधेयमिदं वपुः शरीरं सकलमूर्तिना भवता

त्रिजगदुपकाराय 'अष्टादशभुजं पञ्चवदनं' इत्यादिध्यानोक्तं कस्त्वत्परो बिभर्ति ॥

 
चित्तं विषादमगमन्ग्न परं [^१]प्रसाद -
 

मौज्झद्विचारमुचितं न बहिः प्रचारम् ।

लेभे न कुत्र विवरं प्रवरं न बोध-

मेतत्त्वयैव भगवन्धृतविप्रयोगम् ॥ १७ ॥
 

 
हे भगवनैश्वर्यादिषट्टुक्युक्त, त्वयैव प्रभुणा कृतो विप्रयोगो विश्लेषो येन तत्तादृशरूपं

सदिदं मदीयं मनो विषादं दुःखं प्राप । न पुनः प्रकाशं चित्प्रकाशम् ( प्रसादम्) । तथा

त्वयैव कृतविप्रयोगं कृतविरहमेतन्मम चित्तमुचितमवश्यकर्तव्यं विचारं विवेकमौज्झत्

तत्याज । न च बहिः प्रचारं समाधिधारणाविघातिनं बाह्यजनसङ्गमौज्झत् । तथा त्व-

यैव प्रभुणा धृतविप्रयोगमेतन्मम चित्तं कुत्र न विवरं छिद्रं लेभे, अपि तु सर्वत्र । न

पुनः प्रबोधं तत्त्वज्ञानावबोधं लेभे । अथ च धृतविप्रयोगं विश् प्रश्च विप्रावुपसर्गौ ताभ्यां

योगो विप्रयोगः । धृतो 'वि' इत्यस्य, 'प्र' इत्यस्य च योगः संयोगो येन तत् । त्वयैव

कृतमित्यर्थः । अत्र च वृत्ते त्रिषु चरणेषु विषादमित्यत्र विरुपसर्ग आदिः, प्रकाश (प्र-

साद, मित्यत्र प्र उपसर्गः । तथा विचारमित्यत्र विः, प्रचारमित्यत्र प्रः । विवरमित्यत्र

विरुपसर्ग आदौ प्रवरमित्यत्र च प्र उपसर्गः । एतादृशं विप्रोपसर्गयुतप्राप्त्यप्राप्तियुतं

त्वयैव भगवता कृतमित्यर्थः ॥
 

 
अश्रान्तमान्तरमशान्तरजोविकारं

सारङ्गकेतुमुकुट स्फुटमन्धकारम् ।
 

 
[^
]. 'प्रकाशं' क.
 
Digitized by Google