This page has been fully proofread once and needs a second look.

११०
 
काव्यमाला ।
 
त्वां वामदेवमपि दक्षिणमाश्रितेषु

सर्वत्र शंकर वसन्तमपि स्मरारिम् ।

[^१]
ध्प्यन्तकोपशमहे तुमनन्तकोप-

शान्त्येक कारणमचिन्त्यगतितिं श्रयामि ॥ १४ ॥
 
-
 

 
हे शंकर कैवल्यदायिन्, अहं त्वां विभुमचिन्त्यगतितिं अचिन्त्या मनोतिगाद्भुता गति-

र्यस्य स तं श्रयामि । एतदेवाह – वामदेवमिति । त्वां किंभूतमपि वामदेवमपि ।

'लोकाचारविपरीतत्वाद्वामश्चासौ देवः' इति रायमुकुटीकारः । वामः सुन्दरो देवः ।

संसारवामत्वाद्वेति वामदेव इति... । पुनः किंभूतम् । आश्रितेषु शरणागतेषु दक्षिणमनु-

कूलम् । 'अनुकूले दक्षिणस्त्रिषु ऋजौ दक्षिणदिग्भवे' इति मङ्गःखः । यो वामो भवति

स कथं दक्षिण इति विरोधः । अन्यार्थत्वे तदभावः । तथा त्वां किंभूतम् । सर्वत्र

सचराचरे जगति वसन्तं निवसमानम् शतृप्रत्ययेनास्य सिद्धिः । तथा किंभूतम् ।

स्मरार्रिरिं कामदहनम् । अथ च यो वसन्तः ऋतुराट् । वसति कामोऽत्र वसन्तः ।

'तृभूवहिवस–' इत्यादिना झच् । वसन्तः पुष्पसमयः ऋतुराट् स कथं स्मरस्य काम-
क्

स्
यारिरिति विरोधः । अन्यार्थत्वे तदभावः । पुनः किंभूतमपि । अन्तकोपशम हेतुमपि

अन्तकस्योपशमः शान्तिस्तस्यैकहेतुम् । पुनः किंभूतम् । अनन्तोऽव्युच्छिन्नो यः को-

पस्तस्य शान्तेर्दूरीकरणस्यैककारणम् । यश्चान्तकोपशमहेतुः स कथमनन्तकोपशमहे-

तुरिति विरोधः । अन्यार्थत्वे तदभावः ॥
 

 
क्वापि प्रसीदास दिशन्विशदं प्रकाशं
 

क्वापि प्रयच्छसि घनावरणोपरोधम् ।

कुर्मः किमत्र महनीयमहामहिम्नो
 

नास्त्येव नाम नियतिर्नभसः प्रमोभोश्च ॥ १९ ॥
 

 
हे स्वामिन्, क्वापि कुत्रापि विशदमत्यन्तनिर्मलं प्रकाशं चित्प्रकाशं दिशन्वितरन्प्र-

सीदस्यनुग्रहं करोषि । धन्यस्य कस्यापि गाढभक्तिरतस्येत्यर्थः । पुनः क्वापि कुत्रापि

धनं यदावरणं मायावरणं तेन य उपरोधः सर्वतः संरोधस्तं प्रयच्छसि । तत्तस्माद्वयमत्र

किं कुर्मः । नाम निश्चये । नियतिर्नियमनं परेण विहितं स्तवनीयम हा महत्त्वस्य प्रभोः

श्रीशिवस्य नभस आकाशस्य च नास्ति । अत्रार्चितं (?) द्वयोरिति प्रभोर्नभसश्चेत्यु-

च्यमाने नभसोऽपि श्रीशिवभाभट्टारकस्यैकमूर्तित्वात्तदंशेऽपि पूर्वमुद्दिष्टे न दोषः । नभो-

ऽपि क्वचिदनभ्रत्वात्प्रकाशम्, तथा क्वापि घनानां मेघानामावरणेन समन्तादाच्छादने-

नोपरोधो यस्य तादृशं च भवति ॥
 

 
[^
]. 'अत्यन्तकोप' क.
 
Digitized by Google