This page has not been fully proofread.

११०
 
काव्यमाला ।
 
त्वां वामदेवमपि दक्षिणमाश्रितेषु
सर्वत्र शंकर वसन्तमपि स्मरारिम् ।
अध्यन्तकोपशमहे तुमनन्तकोप-
शान्त्येक कारणमचिन्त्यगति श्रयामि ॥ १४ ॥
 
-
 
हे शंकर कैवल्यदायिन्, अहं त्वां विभुमचिन्त्यगति अचिन्त्या मनोतिगाद्भुता गति-
र्यस्य स तं यामि । एतदेवाह – वामदेवमिति । त्वां किंभूतमपि वामदेवमपि ।
'लोकाचारविपरीतत्वाद्वामश्चासौ देवः' इति रायमुकुटीकारः । वामः सुन्दरो देवः ।
संसारवामत्वाद्वेति वामदेव इति... । पुनः किंभूतम् । आश्रितेषु शरणागतेषु दक्षिणमनु-
कूलम् । 'अनुकूले दक्षिणस्त्रिषु ऋजौ दक्षिणदिग्भवे' इति मङ्गः । यो वामो भवति
स कथं दक्षिण इति विरोधः । अन्यार्थत्वे तदभावः । तथा त्वां किंभूतम् । सर्वत्र
सचराचरे जगति वसन्तं निवसमानम् शतृप्रत्ययेनास्य सिद्धिः । तथा किंभूतम् ।
स्मरार्रि कामदहनम् । अथ च यो वसन्तः ऋतुराट् । वसति कामोऽत्र वसन्तः ।
'तृभूवहिवस–' इत्यादिना झच् । वसन्तः पुष्पसमयः ऋतुराट् स कथं स्मरस्य काम-
क्यारिरिति विरोधः । अन्यार्थत्वे तदभावः । पुनः किंभूतमपि । अन्तकोपशम हेतुमपि
अन्तकस्योपशमः शान्तिस्तस्यैकहेतुम् । पुनः किंभूतम् । अनन्तोऽव्युच्छिन्नो यः को-
पस्तस्य शान्तेर्दूरीकरणस्यैककारणम् । यश्चान्तकोपशमहेतुः स कथमनन्तकोपशमहे-
तुरिति विरोधः । अन्यार्थत्वे तदभावः ॥
 
क्वापि प्रसीदास दिशन्विशदं प्रकाशं
 
क्वापि प्रयच्छसि घनावरणोपरोधम् ।
कुर्मः किमत्र महनीयमहामहिम्नो
 
नास्त्येव नाम नियतिर्नभसः प्रमोश्च ॥ १९ ॥
 
हे स्वामिन्, क्वापि कुत्रापि विशदमत्यन्तनिर्मलं प्रकाशं चित्प्रकाशं दिशन्वितरन्प्र-
सीदस्यनुग्रहं करोषि । धन्यस्य कस्यापि गाढभक्तिरतस्येत्यर्थः । पुनः क्वापि कुत्रापि
धनं यदावरणं मायावरणं तेन य उपरोधः सर्वतः संरोधस्तं प्रयच्छसि । तत्तस्माद्वयमत्र
किं कुर्मः । नाम निश्चये । नियतिर्नियमनं परेण विहितं स्तवनीयम हा महत्त्वस्य प्रभोः
श्रीशिवस्य नभस आकाशस्य च नास्ति । अत्रार्चितं (?) द्वयोरिति प्रभोर्नभसश्चेत्यु-
च्यमाने नभसोऽपि श्रीशिवभारकस्यैकमूर्तित्वात्तदंशेऽपि पूर्वमुद्दिष्टे न दोषः । नभो-
ऽपि क्वचिदनभ्रत्वात्प्रकाशम्, तथा क्यपि घनानां मेघानामावरणेन समन्तादाच्छादने-
नोपरोधो यस्य तादृशं च भवति ॥
 
१. 'अत्यन्तकोप' क.
 
Digitized by Google