This page has been fully proofread once and needs a second look.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१०९
 
यमः कालस्तस्य भगेयेन त्रासेन याकुलता तोतां यमभयाकुलतामृतानां गतानाम् । 'ऋ

गतौ' धातुः । तथा भवदवव्यथया भवो जन्म । उपलक्षण मेतत् । जन्मजरामरणरूयो यो

दवो दवाग्निस्तेन या व्यथा तया मृतानां कथाशेषतां गतानाम् । तथा सुकवीनां रा-

जान: सुकविराजा महाकवयस्तेषां गिरां वाचामालम्बनमाधारभूतम् । किंभूतानां

गिराम् । ऋतानां सत्यानाम् । 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । हे स्वामिन्, ते त

चरितामृतानां चरितान्येवामृतानि तेषां संकीर्तनं जयति सर्वोत्कृष्टं भवति ॥
 

 
दानं तरङ्गतरलः किल दुग्धसिन्धु-

र्मुक्तिः करालतरकालभयात्प्रसादः ।

त्यागोऽपि सप्त दिवसानि सुवर्णवृष्टिः
 

किं किं न चारुचरितं भवतः प्रशस्यम् ॥ १२ ॥
 

 
हे विभो, चारु रम्यं भवतः परमेश्वरस्य किं किं न चरितं जनेन प्रशस्यं स्तुत्यम् ।

तदेवाह – तत्रानन्यसामान्यतया प्रसिद्धान्दानप्रसादत्यागान्माहेश्वरानाह– दानं चे-

त्परीक्ष्यमीश्वरस्य तर्हि किलेत्यागमे तरङ्गैस्तरलञ्श्चलो दुग्धसिन्धुः क्षीरार्णवो दानम् ।

उपमन्युमुनेर्बालस्येत्यर्थः । तथातिभयानककालत्रासान्मोचनं मुक्तिः प्रसादोऽनुग्रहः ।

श्वेताख्यनृपतेरित्यर्थः । तथा सप्तदिवसानि सुवर्णवृष्टिः कनकवर्षणं मरुत्तनृपतेः पुरे ।

एष त्यागः । अतः किं किं न चरित्रं विभोः स्तुत्यम् । अत्र च दानत्यागयोर्विशेषः-

पात्रापात्रविवेकेन यद्वितरणं तद्दानम् । तदभावेन यद्वितरणं स त्याग इति । यत्तु -

'त्यागो विहापितं दानमुत्सर्जनविसर्जने' इत्यमरसिंहेन स्वकोष उक्तं तत्सामान्येन त-

ज्ज्ञैरूह्यम् ॥
 

 
[^१]
स्वामिन्न्रजः परिचितं चपलस्वभावं
 

जात्या मलीमसमिदं हृदयं मदीयम् ।

त्वत्पादपद्मविषये [^२]कृतपक्षपातं
 

धत्ते प्रमोदभरनिर्भरभृङ्गलक्ष्मीम् ॥ १३ ॥
 

 
भोः स्त्रावामिन्, रजसा पापेन रजोगुणेन परिचितं स्पृष्टम् । तथा चपलः स्वभावो

यस्य तम् । तथा जात्या आजन्मतो मलीमसं कलुषम् । इदं मदीयं हृदयं मनस्त्वत्पाद-

पद्मविषये भवदीयचरणाम्बुजस्थले कृतः पक्षपातः स्नेहो येन तादृशं सत्प्रमोदभरेण पर-

मानन्दभरेण निर्भरः पूर्णो यो भृङ्गश्चश्ञ्चरीकस्तस्य भङ्गिं विच्छित्तितिं धत्ते । भृङ्गोऽपि

रजसि परागे परिचितस्तथातिचपलस्वभावः । जात्या मलीमसः कृष्णवर्णोऽपि । तथा

पद्मे कमले दृढ: पक्षाणां सूक्ष्मपक्षाणां पातो यस्य तादृशो भवति ॥
 

 
[^
]. स्व -पुस्तके ऽस्याग्रिमस्य च श्लोकस्य व्यत्ययः.
 

[^
]. 'दृढपक्षपातं' क-ख.
 
Digitized by Google