This page has not been fully proofread.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१०९
 
यमः कालस्तस्य भगेन त्रासेन याकुलता तो यमभयाकुलतामृतानां गतानाम् । 'ऋ
गतौ' धातुः । तथा भवदवव्यथया भवो जन्म । उपलक्षण मेतत् । जन्मजरामरणरूयो यो
दवो दवाग्निस्तेन या व्यथा तया मृतानां कथाशेषतां गतानाम् । तथा सुकवीनां रा-
जान: सुकविराजा महाकवयस्तेषां गिरां वाचामालम्बनमाधारभूतम् । किंभूतानां
गिराम् । ऋतानां सत्यानाम् । 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । हे स्वामिन्, ते तक
चरितामृतानां चरितान्येवामृतानि तेषां संकीर्तनं जयति सर्वोत्कृष्टं भवति ॥
 
दानं तरङ्गतरलः किल दुग्धसिन्धु-
र्मुक्तिः करालतरकालभयात्प्रसादः ।
त्यागोऽपि सप्त दिवसानि सुवर्णवृष्टिः
 
किं किं न चारुचरितं भवतः प्रशस्यम् ॥ १२ ॥
 
हे विभो, चारु रम्यं भवतः परमेश्वरस्य किं किं न चरितं जनेन प्रशस्यं स्तुत्यम् ।
तदेवाह – तत्रानन्यसामान्यतया प्रसिद्धान्दानप्रसादत्यागान्माहेश्वरानाह– दानं चे-
त्परीक्ष्यमीश्वरस्य तर्हि किलेत्यागमे तरङ्गैस्तरलञ्चलो दुग्धसिन्धुः क्षीरार्णवो दानम् ।
उपमन्युमुनेर्बालस्येत्यर्थः । तथातिभयानककालत्रासान्मोचनं मुक्तिः प्रसादोऽनुग्रहः ।
श्वेताख्यनृपतेरित्यर्थः । तथा सप्तदिवसानि सुवर्णवृष्टिः कनकवर्षणं मरुत्तनृपतेः पुरे ।
एष त्यागः । अतः किं किं न चरित्रं विभोः स्तुत्यम् । अत्र च दानत्यागयोर्विशेषः-
पात्रापात्रविवेकेन यद्वितरणं तद्दानम् । तदभावेन यद्वितरणं स त्याग इति । यत्तु -
'त्यागो विहापितं दानमुत्सर्जनविसर्जने' इत्यमरसिंहेन स्वकोष उक्तं तत्सामान्येन त-
ज्ज्ञैरूयम् ॥
 
स्वामिन्न्रजः परिचितं चपलस्वभावं
 
जात्या मलीमसमिदं हृदयं मदीयम् ।
त्वत्पादपद्मविषये कृतपक्षपातं
 
धत्ते प्रमोदभरनिर्भरभृङ्गलक्ष्मीम् ॥ १३ ॥
 
भोः स्त्रामिन्, रजसा पापेन रजोगुणेन परिचितं स्पृष्टम् । तथा चपलः स्वभावो
यस्य तम् । तथा जात्या आजन्मतो मलीमसं कलुषम् । इदं मदीयं हृदयं मनस्त्वत्पाद-
पद्मविषये भवदीयचरणाम्बुजस्थले कृतः पक्षपातः स्नेहो येन तादृशं सत्प्रमोदभरेण पर-
मानन्दभरेण निर्भरः पूर्णो यो भृङ्गश्चश्चरीकस्तस्य भङ्ग विच्छित्ति धत्ते । भृङ्गोऽपि
रजसि परागे परिचितस्तथातिचपलस्वभावः । जात्या मलीमसः कृष्णवर्णोऽपि । तथा
पद्मे कमले दृढ: पक्षाणां सूक्ष्मपक्षाणां पातो यस्य तादृशो भवति ॥
 
१. स्व पुस्तके ऽस्याग्रिमस्य च श्लोकस्य व्यत्ययः.
 
२. 'दृढपक्षपातं' क-ख.
 
Digitized by Google