This page has been fully proofread once and needs a second look.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१०७
 
शयन्कुर्वन्कोऽप्यनिर्वाच्यमहिमा गुरुर्महान्दैशिकश्च तव विभोः स्तवः स्तुतिरूपो जति

सर्वोत्कृष्टो भवति । एष क इत्याह – यस्य स्तवस्य संक्रमस्तत्त्वार्थान्तःप्रवेशः स एव

संक्रमः सोपानं तस्य क्रमस्तद्वशेन मे मम वाणी सद्यः पुरोऽध्ग्रे स्फुरति । किंभूतेन

दुरतिक्रमेण दुरारोहेण । दैशिकोऽपि शिष्यस्य मनसि धारणयान्तः प्रवेशेन संक्रमण -

दीक्षां विधत्त इत्याममोक्तिः ॥
 
नास्य स्ट

 
नास्य स्पृ
हास्ति सरसाय रसायनाय

नायन्त्रितेन्दुवदनावदनामृताय ।

निर्बन्धमेति तु भवत्सविधे विधेहि
 

निर्बन्धमन्धकरिपो तदिदं मनो मे ॥ ६ ॥
 

 
हे अन्धकरिपो परमेश्वर, अस्य मम मनसः सरसं सह रसैः षड्मिःभिः स्वादुप्रभृति

भिर्वर्तते यत्तत्सरसम् । षड्रसममृतमित्यायुर्वेदे । सरसाय रसायनायामृताय स्पृहा नास्ति ।

तथा अयन्त्रितमव्युच्छिन्नमिन्दुवदनावदनामृतं चन्द्रमुखीमुखामृतं तस्मै । तु पक्षे । हे

विभो, भवतः सविधं निकटं तत्र निर्बन्धं हेवाकमेति । अतो हे विभो, इदं मे मम

मनो बन्धाद्भवबन्धान्निर्मुक्तं निर्बन्धं विमुक्तमायाबन्धं वा विधेहि कुरु ॥

 
आभाति शक्रनगरी न गरीयसी मे
 

प्रीतिं च सिञ्चति न कांचन काञ्चनाद्रिः ।

जाने परं हर शरण्यमरण्यमेव
 

यत्र त्वदङ्घ्रिनलिनार्चन निर्वृतिः स्यात् ॥ ७ ॥
 

 
हे हर, शक्रनगरी अमरावती गरीयसी अतिशयेन गुर्वी मे मम न आभाति । तथा

काश्चनाद्रिश्च मेरुगिरिश्च कांचन प्रीतितिं न सिञ्चति । तुष्टिटिं नोत्पादयतीत्यर्थः । हे विभो,

यत्रारण्ये त्वच्चरणपङ्कजपूजासुखं स्यात्तदेवारण्यं शरण्यं शरणे साधु परं केवलं जाने।

परमुत्कृष्टं वा ॥
 

 
पुष्पेषुदोहदवशादे[^१]दवशा भृशं या
 

बभ्राम वामनयनामुजमञ्जरीषु ।

सा सांप्रतं दृगलिनी बे[^२]बलिनी व्यनक्ति
 

त्वद्भक्तिकल्पलतिकाफलभोगतृष्णाम् ॥ ८ ॥
 

 
बलं विद्यते यस्याः सा बलिनी । सा मे मम दृगलिनो हनी दृग्हाटेदृष्टिरेवालिनी भ्रमरी सां-

प्रतमिदानीं तव भक्तिर्वाङ्नः कायैस्तदे कविषयतासक्तिः सैव कल्पलतिका तस्याः फलं

परमानन्दरूपं तस्य भोगे तृष्णामभिलाषं व्यनक्ति प्रकटोकरोति । सा केत्याइ - येत्या -

 
[^
]. 'अवशं' क.
[^
]. 'बलिनीं' स्त्र.
 
Digitized by Google