This page has not been fully proofread.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१०७
 
शयन्कुर्वन्कोऽप्यनिर्वाच्यमहिमा गुरुर्महान्दैशिकच तव विभोः स्तवः स्तुतिरूपो जति
सर्वोत्कृष्टो भवति । एष क इत्याह – यस्य स्तवस्य संक्रमस्तत्त्वार्थान्तःप्रवेशः स एव
संक्रमः सोपानं तस्य क्रमस्तद्वशेन मे मम वाणी सयः पुरोऽध्रे स्फुरति । किंभूतेन
दुरतिक्रमेण दुरारोहेण । दैशिकोऽपि शिष्यस्य मनसि धारणयान्तः प्रवेशेन संक्रमण -
दीक्षां विधत्त इत्याममोक्तिः ॥
 
नास्य स्टहास्ति सरसाय रसायनाय
नायन्त्रितेन्दुवदनावदनामृताय ।
निर्बन्धमेति तु भवत्सविधे विधेहि
 
निर्बन्धमन्धकरिपो तदिदं मनो मे ॥ ६ ॥
 
हे अन्धकरिपो परमेश्वर, अस्य मम मनसः सरसं सह रसैः षड्मिः स्वादुप्रभृति
भिर्वर्तते यत्तत्सरसम् । षसममृतमित्यायुर्वेदे । सरसाय रसायनायामृताय स्पृहा नास्ति ।
तथा अयन्त्रितमव्युच्छिन्नमिन्दुवदनावदनामृतं चन्द्रमुखीमुखामृतं तस्मै । तु पक्षे । हे
विभो, भवतः सविधं निकटं तत्र निर्बन्धं हेवाकमेति । अतो हे विभो, इदं मे मम
मनो बन्धाद्भवबन्धान्निर्मुक्तं निर्बन्धं विमुक्तमायाबन्धं वा विधेहि कुरु ॥
आभाति शक्रनगरी न गरीयसी मे
 
प्रीतिं च सिञ्चति न कांचन काञ्चनाद्रिः ।
जाने परं हर शरण्यमरण्यमेव
 
यत्र त्वदनलिनार्चन निर्वृतिः स्यात् ॥ ७ ॥
 
हे हर, शक्रनगरी अमरावती गरीयसी अतिशयेन गुर्वी मे मम न आभाति । तथा
काश्चनाद्रिश्च मेरुगिरिश्च कांचन प्रीति न सिञ्चति । तुष्टि नोत्पादयतीत्यर्थः । हे विभो,
यत्रारण्ये त्वच्चरणपङ्कजपूजासुखं स्यात्तदेवारण्यं शरण्यं शरणे साधु परं केवलं जाने।
परमुत्कृष्टं वा ॥
 
पुष्पेषुदोहदवशादेवशा भृशं या
 
बभ्राम वामनयनामुजमञ्जरीषु ।
सा सांप्रतं दृगलिनी बेलिनी व्यनक्ति
 
त्वद्भक्तिकल्पलतिकाफलभोगतृष्णाम् ॥ ८ ॥
 
बलं विद्यते यस्याः सा बलिनी । सा मे मम हगलिनो हग्हाटेरेवालिनी भ्रमरी सां-
प्रतमिदानीं तव भक्तिर्वाङ्धनः कायैस्तदे कविषयतासक्तिः सैव कल्पलतिका तस्याः फलं
परमानन्दरूपं तस्य भोगे तृष्णामभिलाषं व्यनक्ति प्रकटोकरोति । सा केत्याइ - येत्या -
१. 'अवशं' क. २. 'बलिनीं' स्त्र.
 
Digitized by Google