This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
गीः परामुत्कृष्टां प्रीरौढिं पदार्थे वाक्यरचनादिरूपो गुणविशेषः प्रौढिस्तामनुपयत्यपि अ-

प्राप्नुवन्त्यपि निसर्गेण स्वभावेन मुखरा अत्यन्तवाचाटा मुखे आमुख एव रागः किं-

चिद्वर्णनाभिलाषो यस्या ईदृशी सती यद्धठादिव बलादिव परमुत्कृष्टतरं परात्परतरं पु-

रुषं परमात्मानं परमशिवं त्वां ग्रहीतुं यद्वाञ्छति तत्तस्या भृधृष्टतैवापराध्यतीत्यर्थः । अथ

च काचित्स्वभावतो वाचाटा मुख एवानुरागवती च परां वाल्यात्परां प्रौढिं यौवनाव-

स्थामप्राप्नुवत्यपि परमन्यं पुरुषं कामुकं यद्वाञ्छति तत्र तस्या धृष्टतैवापराध्यतीत्यर्थः ॥

 
यद्वा भवत्यसुलभो भवदाश्रितस्य
 

शस्यः स कोऽपि महिमा न हि मादृशोऽपि ।

स्वच्छन्दमन्दमपि यत्र पदं त्वदुक्षा
 

धत्ते मही भवति हेममयी हि तत्र ॥ ३ ॥
 

 
यद्वा पक्षान्तरे । अथवा हे स्वामिन्, मादृशोऽपि वराकस्य यदाश्रितस्य भवन्तं

विभुमाश्रितस्य अर्थान्ममैव शस्यः स्तुत्यः स कोऽप्यनिर्वाच्यो महिमा असुलभो दुर्लभो

न भवति । हि निश्चये । किं तु सुलभ एवेत्यर्थः । ममैवैष महिमा भवदाश्रितत्वाद्गिरः ।

दृष्टं चैतत् । हे विभो, त्वदुक्षा भवदीयवाहनशाक्रो यत्र स्वच्छन्दं स्वतन्त्रं मन्दमपि

पदं धत्ते तत्र मही हेममयी जाम्बूनदमयी भवति । हि निश्चये ॥

 
भीष्मो विषादपि विषादपिनद्धमेत-

च्
चेतश्च्कार सविकारमकारणारिः ।

मोहामयस्तमयमस्तमयं नयामि
 

स्वामिंस्तव स्तवरसायनसेवनेन ॥ ४ ॥
 

 
विषाद्गरलादपि भीष्मो घोरः अकारणारिर्निष्कारणवैरी मोहामयः । 'मीङ् हिंसा-

याम्' । आमिनोति हिनस्ति बलमामयः । मोहोऽविद्यापरपर्याय मज्ञान मेवामयो रोगः ।

विषादपिनद्धं विषादेन दुःखेन पिनद्धं परिवलितं सविकार मनेकचिन्ताजालदोषदुष्टमेत-

न्मदीयं चेतश्चकार । हे स्वामिन्परमेश्वर, अयमहं तव विभोः स्तवः स्तुतिरेव रसायनं

जरामरणव्याधिहरं महौषधं तस्य सेवनेन तमामयं मोहामयमस्तमयं नाशं नयामि ।

रसायनसेवया हि महामयः शाम्यति ॥
 

 
एष स्तवस्तव नवप्रमदोपदेश-

मादेशयञ्जयति कोऽपि गुरुर्गिरीशः ।

सद्यः पुरः स्फुरति मे दुरतिक्रमेण
 

यत्संक्रमक्रमवशेन वचोधिदेवी ॥ ५ ॥
 

 
हे गिरीश । गिरे: कैलासस्येशस्तस्यामन्त्रणं हे गिरीश शंभो,
 

नवप्रमदोपदेशमादे-
Digitized by Google