This page has been fully proofread once and needs a second look.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
209
 
तस्य महत ईश्वरस्य ब्रह्मादिकारणानामपि कारणस्य किं ब्रूमः । महिमानमिति

शेषः । तस्य कस्येत्याह–यः परमेश्वरो भोक्ता स्वतन्त्रकर्तृरूपो भोग्यः कार्यरूपथ्थोश्चो-

र्व्यादिमिःभिः क्षितिजलपवनादिमिःभिः । अरुणः सूर्यः । शिखी अभिःग्निः । अष्टाभिर्मूर्तिभिर्युभु-

वनं त्रिजगद्विबिभर्ति धारयति रक्षति पुष्णाति च । यच विभुः स्फारैर्निजोल्लासरूपेरशेपैरंशै-

र्ब्रह्मपुरंदरप्रभृतिभिर्ब्रह्मेन्द्रादिभिः स्वकैः स्वेच्छयोत्थापितैः शारैरिवाक्षैरिव स्वयमेवो-
त्या

त्था
पितनिर्नाशितैः क्रीडनकैरिव स्वैरी स्वातन्त्र्यशक्तियुक्तः सदा खेलति क्रीडतीति

शिवम् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

शरणाश्रयणं नामाष्टमं स्तोत्रम् ।
 

 
नवमं स्तोत्रम् ।
 

 
दीपोत्करै रविरुचां परिपूरणेयं
 

नीहारवारिभिरिदं भरणं पयोधेः ।

अस्मादृशां मितदृशां नियतैर्वचोभिः
 

प्रस्तूयते मै[^१]मव तव स्तवचापलं यत् ॥ १ ॥
 

 
रूयते स्तूयते त्रिलोक्या इति रविः । तस्य रवेनिस्रिजगञ्चक्षुषो या रुचः सहस्रपरि-

मिता रश्मयस्तासां दीपोत्करैर्गृहमणिसमूहैरियं परिपूरणा । विडम्बनायैव भवतीत्यर्थः ।

तथा पयोनिधेर्महार्णवस्य नीहारवारिभिरवश्यायजलैरिदं भरणं परिपूर्णीकरणम् । तदपि

विडम्बनाय । इयं परिपूरणा, इदं च भरणं किमित्याह – हे भव, भवत्यस्माच्छिवादि

क्षित्यन्तं समस्तमिति भवः । परमशिवः । तत्संबोधनं हे भव । मितदृशां मिता दृग्

ज्ञानं येषां ते तादृशामत्यल्पज्ञानवतामस्मादृशां वराकाणाम् । 'दृग्बुद्धौ दर्शने च स्त्री'

इति मङ्गःखः । चर्मचक्षुषां नियतैः परिमितैर्वचोभिस्तव स्तवचापलं स्तुत्युद्योगिता यत्प्र-

स्तूयत आरभ्यते तद्विडम्बनायैवेत्यर्थः । निदर्शनालंकारः ॥

 
अत्रापराध्यति गिरो हरधृष्टतेय-

मेषा निसर्गमुखरा मुखरागिणी यत् ।

प्रौद्धिढिं परामैम[^२]नुपयत्यपि वाञ्छति त्वां
 

स्वामिन्हठादिव परं पुरुषं ग्रहीतुम् ॥ २ ॥
 

 
अत्र विषये । ममेति शेषः । मम गिरो वाण्या इयं धृष्टता प्रागल्भ्यम् । एवशब्द

आर्थः । धृष्टतैवापराध्यति । अत्र कुत्रेत्याह – यद्यस्मात्कारणात् हे स्वामिन, एषा मम
 

 
[^
]. 'तव भव' ख.
[^
]. 'अनुनयन्त्यपि' ख.
 
१४
 
Digitized by Google