2023-02-23 21:27:16 by ambuda-bot
This page has not been fully proofread.
९ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
209
तस्य महत ईश्वरस्य ब्रह्मादिकारणानामपि कारणस्य किं ब्रूमः । महिमानमिति
शेषः । तस्य कस्येत्याह–यः परमेश्वरो भोक्ता स्वतन्त्रकर्तृरूपो भोग्यः कार्यरूपथ्थो-
र्व्यादिमिः क्षितिजलपवनादिमिः । अरुणः सूर्यः । शिखी अभिः । अष्टाभिर्मूर्तिभिर्यु-
वनं त्रिजगद्विभर्ति धारयति रक्षति पुष्णाति च । यच विभुः स्फारैर्निजोल्लासरूपेरशे-
र्ब्रह्मपुरंदरप्रभृतिभिर्ब्रह्मेन्द्रादिभिः स्वकैः स्वेच्छयोत्थापितैः शारैरिवाक्षैरिव स्वयमेवो-
त्यापितनिर्नाशितैः क्रीडनकैरिव स्वैरी स्वातन्त्र्यशक्तियुक्तः सदा खेलति क्रीडतीति
शिवम् ॥
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभटविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
शरणाश्रयणं नामाष्टमं स्तोत्रम् ।
नवमं स्तोत्रम् ।
दीपोत्करै रविरुचां परिपूरणेयं
नीहारवारिभिरिदं भरणं पयोधेः ।
अस्मादृशां मितदृशां नियतैर्वचोभिः
प्रस्तूयते मैव तव स्तवचापलं यत् ॥ १ ॥
रूयते स्तूयते त्रिलोक्या इति रविः । तस्य रवेनिजगञ्चक्षुषो या रुचः सहस्रपरि-
मिता रश्मयस्तासां दीपोत्करैर्गृहमणिसमूहैरियं परिपूरणा । विडम्बनायैव भवतीत्यर्थः ।
तथा पयोनिधेर्महार्णवस्य नीहारवारिभिरवश्यायजलैरिदं भरणं परिपूर्णीकरणम् । तदपि
विडम्बनाय । इयं परिपूरणा, इदं च भरणं किमित्याह – हे भव, भवत्यस्माच्छिवादि
क्षित्यन्तं समस्तमिति भवः । परमशिवः । तत्संबोधनं हे भव । मितदृशां मिता दृग्
ज्ञानं येषां ते तादृशामत्यल्पज्ञानवतामस्मादृशां वराकाणाम् । 'हग्बुद्धौ दर्शने च स्त्री'
इति मङ्गः । चर्मचक्षुषां नियतैः परिमितैर्वचोभिस्तव स्तवचापलं स्तुत्युद्योगिता यत्प्र-
स्तूयत आरभ्यते तद्विडम्बनायैवेत्यर्थः । निदर्शनालंकारः ॥
अत्रापराध्यति गिरो हरधृष्टतेय-
मेषा निसर्गमुखरा मुखरागिणी यत् ।
प्रौद्धि परामैनुपयत्यपि वाञ्छति त्वां
स्वामिन्हठादिव परं पुरुषं ग्रहीतुम् ॥ २ ॥
अत्र विषये । ममेति शेषः । मम गिरो वाण्या इयं धृष्टता प्रागल्भ्यम् । एवशब्द
आर्थः । धृष्टतैवापराध्यति । अत्र कुत्रेत्याह – यद्यस्मात्कारणात् हे स्वामिन, एषा मम
१. 'तव भव' ख. २. 'अनुनयन्त्यपि' ख.
१४
Digitized by Google