This page has not been fully proofread.

१०४
 
काव्यमाला ।
 
क्षीराब्धेरवहेलया वितरणं निर्यन्त्रणं वर्षणं
हेम्रः क्रुद्धकृतान्तमुक्तफणभृत्पाशग्रहोडर्हणम् ।
यच्चाप्युत्कटकालकूटकवलीकारादि कर्माद्भुतं
क्रीडामात्रकमेव यस्य तदसौ देवः कथं वर्ण्यते ॥ ५० ॥
 
यस्य देवस्य श्रीशिवस्य तदेतत्क्रीडामात्रकमेव बालस्य यथा क्रीडनकक्रीडा तथैव
भवति । स देव: । 'दिवु क्रीडायाम्' धातुः । दीव्यतीति देवः शिवादिक्षित्यन्ताशेष-
सृष्टयादिक्रीडापरः परशिवः कथमस्माभिश्चर्मचक्षुभिर्वर्ण्यते । तदेतत्किमित्याह - यत्क्षी-
राब्धे: क्षीरोदधेरवहेलया सावहेलनं वितरणं दानम् । बालस्योपमन्युमुनेरित्यर्थः ।
तथा यन्निर्यन्त्रणमव्युच्छिन्नं हेम्नो जाम्बूनदस्य वर्षणं सप्तदिनानि वृष्टिः । मरुत्तस्य
नृपतेः पुर इत्यर्थः । तथा यत्क्रुद्धेन कृतान्तेन यमेन मुक्तः प्रक्षिप्तो यः फणभृत्पाशः
सर्पपाशस्तेन यो ग्रहो दृढग्रहणं तस्मादुद्वर्हणं मोचनम् । श्वेताख्यनृपतेरित्यर्थः । यच्चो-
त्कटो महोद्भटश्चासौ कालकूटो विषभेदस्तस्य कवलीकारो निगरणं समुद्रमथनावसरे ।
तदादि कर्माद्भुतमपदानं यस्य ॥
 
स्वच्छन्दस्य यदृच्छया गमयतः प्रेखोलतां भूलता-
माज्ञानुग्रहलाभकत्थनघन स्पर्धानुबन्धोद्धुराः ।
सोष्माणः कलयन्ति यस्य कलहं सेवासु देवासुरा
 
देवस्यास्य महेश्वरस्य महिमश्लाघाविधौ के वयम् ॥ ११ ॥
अस्य देवस्य शिवादिक्षित्यन्ताशेषसृष्टयादिक्रीडापरस्य महेश्वरस्य परमशिवस्य म
हिनः श्लाघाविधौ महत्त्वस्तुतिविरचने के 'वयं भवामः । यस्य महिमावबोधे ब्रह्मविष्ण्वा-
दयोऽप्यसमर्थास्तत्रास्माकं का गतिरित्यर्थः । अस्य कस्येत्याह – स्वच्छन्दस्येति ।
यस्य विभोः स्वच्छन्दस्य स्वातन्त्र्यशक्तियुक्तस्य यदृच्छया निजेच्छाया शक्त्या भ्रूलतां
• प्रेसोलतां मनाग्दोलारूपतां चाञ्चल्यं गमयतः प्रापयतः सतः आज्ञैवानुग्रहो महान् प्रसा-
दस्तस्य लाभेन कत्थनं विकत्थनं तेन घनः परस्परं स्पर्धाया अनुबन्धोऽविच्छेदस्तेनो.
द्धुराः । अत एव सहोष्मणा वर्तन्ते ये ते देवासुरा ब्रह्मादिदेवा असुराच कलहं कल-
यन्ति कुर्वन्ति । ममैवानुग्रहस्त्रिजगदीशेन कृतो ममैवेति ॥
 
उर्वीनीरसमीरणारुणशिखिव्योमात्मसोमात्मकै-
रष्टाभिर्विभवोर्बिभर्ति भुवनं भोक्ता च भोग्यश्च यः ।
बूमस्तस्य किमीश्वरस्य महतः स्वैरी स्वकैरेव यः
स्फारैर्ब्रह्मपुरंदरप्रभृतिभिः शारैरिव क्रीडति ॥ १२ ॥
 
१. 'प्रेङ्खोलतां' इति पुस्तकद्वयपाठः
 
Digitized by Google