This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
स्तन्यार्थमप्युपहिता ष्टयुकस्य धात्री

पात्रीभवत्यखिलभोगसुखासिकानाम् ॥ ४७ ॥
 

 
अपरैरन्यैर्नियुक्ता दत्ताज्ञा अपि ये मर्त्या भर्गस्य श्रीशंभोर्भक्तितिं कुर्वन्ति तेऽपि भव-

दुर्गतिं जन्मजरामरणव्यापदमुत्सृजन्ति त्यजन्ति । अत्र च दृष्टान्तमाह - स्तन्यार्थ-

मिति । आढ्यजनेनेतितिं शेषः । आढ्यजनेन पृथुकस्य बालकस्य स्तन्यप्रदानायोपहिता

गृहीतापि धात्री उपमाता । 'धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि' इति शा-

श्वतः । अखिलभोगसुखासिकानां सर्वभोगाश्च सुखासिका: सुखेनासनक्रियाश्च तासां

पात्रीभवति । ताः प्राप्नोतीत्यर्थ: । 'उपचिता' इत्यपि पाठः ॥
 

 
दम्भादपि ध्रुवमनङ्गजितः प्रयुक्तः

सेवाविधिः [^१]प्रेमदसंपदमादधाति ।

वेश्याजनस्य न सुखाय किमङ्गराग-

मालादुगूलवलः कृतकोऽपि वेषः ॥ ४८ ॥
 
८ स्तोत्रम्]
 

 
ध्रुवं निश्चये । दम्भादपि दम्भेनापि प्रयुक्तः कृतोऽनङ्गजित: स्मरारे: पूजाविधिः

प्रमदसंपदं परमानन्दसमृद्धिमादधात्युत्पादयति । अत्रापि दृष्टान्तमाह–वेश्येति ।

अत्रापि परार्थं विहित इति शेषः । परार्थे विहितोऽप्यङ्गरागो विलेपनं च मालाश्च

दुगूलं धौतकौशेयं च तैर्धवल उज्ज्वलः कृतकोऽपि वेषो नेपथ्यं वेश्याजनस्य रूपाजी-

वाजनस्य सुखाय निजसुखाय किं न भवति । भवत्येवेत्यर्थः ॥
 

पूर्वोक्तप्रकारेण श्रोतृजनं सम्यग्बोधयित्वा पूत्कृत्य वक्ष्यमाणमाह-

 
तस्मादुपेत विभुमेव यथातथापि
 

मुक्तिर्न चेद्भवति किं न गलन्त्यघानि ।

यः स्वेच्छयैव निपतत्यमृतह्रदेऽन्त-
मे

र्म
ज्जत्यसौ न यदि तत्किमुदेत्यसिक्तः ॥ ४९ ॥
 

 
भोः सहृदया इति शेषः । भोः सहृदयाः, पूर्वोक्तशासनाद्विभुमेव परमकारुणिकं

श्रीशंभुमेव येनकेनापि प्रकारेण स्वेच्छया प्रेरणया वा केनापि प्रसङ्गेन वा शरणमुपेत

व्रजत । किं बहुनेत्यर्थः । भवतां चेत्सुदुर्लभा मुक्तिरात्यन्तिकदुःखनिवृत्तिर्निजभाग्य-

महिम्ना न भवति तर्ह्यघानि पातकानि प्राक्तनजन्मवृन्दार्जितानि किं न गलन्ति न

दूरीभवन्ति । भवन्त्येव । अत्र प्रमाणमाह - - यः पुरुषो निजेच्छयैवामृतह्रदे सुधाह्दे

निपतत्यसौ पुरुषश्चेत्तत्र सुधाह्दे न मज्जति न ब्रुडति तर्ह्यसिक्तोऽमृतबिन्द्वसिक्तः कि-

मुदेति । नोदेति । अमृतरसबिन्दुसिक्त एवोदेतीत्यर्थः ॥
 

 
[^
]. 'प्रमदसम्मद' इति ख- पाठः .
 
Digitized by Google