This page has been fully proofread once and needs a second look.

१०२
 
काव्यमाला ।
 
हित्वा वनं हि नवनागरपर्णपूर्ण-

मुष्ट्रः श्रयत्यवटमेव सकण्टकौघम् ॥ ४४ ॥

 
अनन्यजशासनस्य कामरिपोः श्रीशंभोः शासनं शास्त्रमुल्लङ्ग्य कोऽपि मूडो विरलो-

ऽन्यशासनमन्यशास्त्रमुपासितुं निष्ठां स्थितिमेति । अत्र दृष्टान्तमाह - हित्वेत्यादि ।

हि यस्मात्कारणान्नवान्यार्द्राणि यानि नागरपर्णानि ताम्बूलवल्लीदलानि तैः पूर्णं वनं

हित्वा त्यक्त्वा उष्ट्रः उष्यते दह्यते मरावुष्टःट्रः क्रमेलकः सकण्टकौघं सुतीक्ष्णकण्टकमव

टमेव भृगुमेव श्रयति । 'प्रपातस्त्ववटो भृगुः' इत्यमरः । अवन्त्यस्माल्लोका इत्यवः ।
वटः ।
अत्र चोष्ट्र इति पदांशे श्रुतिकटुत्वेऽपि भक्तिविषये नं दोषः । एतद्वृत्ताशयानुसारेण

ममापीदं वृत्तमेकम् – 'हृद्यं विहाय शिवशास्त्ररसायनं यो धत्तेऽन्यशासनमतश्रवणेऽभि-

लाषम् । हित्वाभ्रसिन्धुजलमिन्दुकलावदातं चुण्टीजलं पिबति कुण्ठमतिः स मर्त्यः ॥' इति ॥

यदाकदापि यत्रकुत्रापि येनकेनचित्प्रसङ्गेन श्रीशिवसेवा विहिता सर्वाभीप्सितदैवेत्याह-

 
अन्यार्थमप्युपहिता शितिकण्ठसेवा

लोकस्य कल्पलतिकेव फलत्यवश्यम् ।

उद्दीपिता खलु परस्य कृतेऽपि येन
 

तस्यापि दर्शयति दीपशिखार्थसार्थम् ॥ ४५ ॥
 

 
अन्यो यजमानादिः प्रेरकोऽर्थः प्रयोजनं यत्र तदन्यार्थमप्युपहिता कृता शितिक-

ण्ठस्य श्रीशंभोः सेवा लोकस्य पूजकस्य कल्पलतिकेव सर्वाभीष्टफलप्रदावश्यं फलत्येव ।

अत्रापि दृष्टान्तमाह – उद्दीपितेति । खलु निश्चये । येन चानेनान्यस्य लोकस्य कृते

दीपशिखा उद्दीपिता तस्याप्युद्दीपकस्याप्यर्थसार्थं घटपटादिपदार्थजातं दर्शयति

 
[^१]
यद्यर्चितः स भगवानपि जीविकार्
 
थं
तत्रापि किल्बिषविपाकमपाकरोति ।

योऽपि द्युसिन्धुपयसि प्लवते निदाघ-

घर्मच्छिदे भवति सोऽपि हि धौतपापः ॥ ४६ ॥
 

 

 
स भगवाञ्श्रीशिवः । अपिर्भित्रक्रमः । जीविकार्थं जीवनोपायार्थमपि केनापि यद्य-

र्
चितस्तत्रापि तस्यार्चकस्य किल्बिषविपाकमपाकरोति नाशयति । अत्र दृष्टान्तयति-

द्
युसिन्धुपयसि त्रिपथगावारिणि निदाघघर्मच्छिदे ग्रीष्मोष्मशमनाय योऽपि प्लवते मज्जते

सोऽपि धौतपापो निर्धूतपातको भवति । हि निश्चये ॥

पूर्वोक्तमपि पुनरपि समर्थयति-

 
कुर्वन्ति भक्तिमपरैरपि ये नियुक्ता

भर्गस्य तेऽपि भवदुर्गतिमुत्सृजन्ति ।
 

 
[
]. 'यद्यर्थितः' इति ख-पाठ:.
 
Digitized by Google