This page has not been fully proofread.

१०२
 
काव्यमाला ।
 
हित्वा वनं हि नवनागरपर्णपूर्ण-
मुष्ट्रः श्रयत्यवटमेव सकण्टकौघम् ॥ ४४ ॥
अनन्यजशासनस्य कामरिपोः श्रीशंभोः शासनं शास्त्रमुल्लय कोऽपि मूडो विरलो-
ऽन्यशासनमन्यशास्त्रमुपासितुं निष्ठां स्थितिमेति । अत्र दृष्टान्तमाह - हित्वेत्यादि ।
हि यस्मात्कारणान्नवान्यार्द्राणि यानि नागरपर्णानि ताम्बूलवल्लीदलानि तैः पूर्ण वनं
हित्वा त्यक्त्वा उष्ट्रः उष्यते दह्यते मरावुष्टः क्रमेलकः सकण्टकौघं सुतीक्ष्णकण्टकमव
टमेव भृगुमेव श्रयति । 'प्रपातस्त्ववटो भृगुः' इत्यमरः । अवन्त्यस्माल्लोका इत्यवः ।
अत्र चोष्ट इति पदांशे श्रुतिकटुत्वेऽपि भक्तिविषये नं दोषः । एतद्वृत्ताशयानुसारेण
ममापीदं वृत्तमेकम् – 'हृद्यं विहाय शिवशास्त्ररसायनं यो धत्तेऽन्यशासनमतश्रवणेऽभि-
लाषम् । हित्वाभ्रसिन्धुजलमिन्दुकलावदातं चुण्टीजलं पिबति कुण्ठमतिः स मर्त्यः ॥' इति ॥
यदाकदापि यत्रकुत्रापि येनकेनचित्प्रसङ्गेन श्रीशिवसेवा विहिता सर्वाभीप्सितदैवेत्याह-
अन्यार्थमप्युपहिता शितिकण्ठसेवा
लोकस्य कल्पलतिकेव फलत्यवश्यम् ।
उद्दीपिता खलु परस्य कृतेऽपि येन
 
तस्यापि दर्शयति दीपशिखार्थसार्थम् ॥ ४५ ॥
 
अन्यो यजमानादिः प्रेरकोऽर्थः प्रयोजनं यत्र तदन्यार्थमप्युपहिता कृता शितिक-
ण्ठस्य श्रीशंभोः सेवा लोकस्य पूजकस्य कल्पलतिकेव सर्वाभीष्टफलप्रदावश्यं फलत्येव ।
अत्रापि दृष्टान्तमाह – उद्दीपितेति । खलु निश्चये । येन चानेनान्यस्य लोकस्य कृते
दीपशिखा उद्दीपिता तस्याप्युद्दीपकस्याप्यर्थसार्थ घटपटादिपदार्थजातं दर्शयति
यद्यर्चितः स भगवानपि जीविकार्थ
 
तत्रापि किल्बिषविपाकमपाकरोति ।
योऽपि द्युसिन्धुपयसि ठवते निदाघ-
घर्मच्छिदे भवति सोऽपि हि धौतपापः ॥ ४६ ॥
 

 
स भगवाञ्श्रीशिवः । अपिभित्रक्रमः । जीविकार्थ जीवनोपायार्थमपि केनापि यद्य-
चितस्तत्रापि तस्यार्चकस्य किल्बिषविपाकमपाकरोति नाशयति । अत्र दृष्टान्तयति-
युसिन्धुपयसि त्रिपथगावारिणि निदाघघर्मच्छिदे ग्रीष्मोष्मशमनाय योऽपि प्लवते मज्जते
सोऽपि धौतपापो निर्धूतपातको भवति । हि निश्चये ॥
पूर्वोक्तमपि पुनरपि समर्थयति-
कुर्वन्ति भक्तिमपरैरपि ये नियुक्ता
भर्गस्य तेऽपि भवदुर्गतिमुत्सृजन्ति ।
 
१. 'यद्यर्थितः' इति ख-पाठ:.
 
Digitized by Google