This page has been fully proofread once and needs a second look.

८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
१०१
 
त्याश्चर्यम् । तथा कं विभुम् । हरम् । प्रलये कृत्स्नं हरतीति हरस्तम् । तथा अघोरम् ।

परचैतन्यानन्दघनाद्वयमहाभैरवात्मक स्वस्वरूपे प्रत्यभिज्ञापकत्वात् । तथानाश्रितसदाशिवे-

श्वरादिरूपभेदात्मपदप्रदत्वादघोरः परमानन्दप्रदस्तम्। यश्च हरो भवति स कथमघोरो

न घोरः परमसुखदायीत्याश्चर्यम् । तथा अजम् । न जातोऽजोऽभवोऽनादिर्ब्रह्मादिकार-

णानामपि कारणत्वात्सत्तामात्ररूपः । तथा सद्यस्तत्क्षणमेव जातः शिवादिक्षित्यन्तविश्व-

स्य निजप्रतिबिम्बभूतस्य नवनवोल्लासात्सद्योजातरूपः । ईशानतत्पुरुषाघोरवामदेवसद्यो-

जातानां पञ्चब्रह्मणां मध्ये सद्योजातस्तद्रूपमित्यर्थः । यश्चाजः स कथं सद्यो जातो भव-

तीत्याश्चर्यम् । एतेषां सर्वेषां पदानामन्यार्थत्वेऽविरोधः ॥

 
अस्मिन्भवाध्वनि महाविषमे ऽसमेषु-

रोषादितस्करतिरस्करणैकवीरम् ।

भीरुः श्रयामि शरणं क्षणदाकुटुम्ब

लेखाशिखामणिमनुत्तमशक्तिमीशम्
 
॥ ४२ ॥
 

 
अहमस्मिन्भवाध्वनि संसाराध्वनि महाविषमेऽत्यन्तदुर्गमे भीरुः सन्नसमेषुर्विषमेषुः

कामः रोषः क्रोधस्तदाद्या ये तस्करा दस्यवस्तेषां तिरस्करणेऽत्यन्तदमने एकवीरमीशं

परमेश्वरमनुत्तमशक्तिमविद्यमान उत्तमो यस्यास्तादृशी शक्तिः स्वातन्त्र्यशक्तिर्यस्य स

तादृशं क्षणदा कुटुम्बलेखाशिखामणि परमेश्वरं श्रयामि । एतद्द्वृत्तानुसारेण ममापि

वृत्तमेकम् । यथा –'पश्चेषुणा हृतविवेकधनं कृतान्तपञ्चास्यघोरतरहुंकृतिकातरं माम् ।

पञ्चेन्द्रियारिकृतवञ्चनपश्चभद्रं पातुं क्षमोऽस्ति किल पञ्चमुखः स देवः ॥ इति । 'पञ्च-

भद्र उपनुप्लुतः' इत्यमरः । अन्यत्स्पष्टम् ॥
 

 
किं मेरुमन्दर मुखैर्गिरिभिर्गरीया -

न्कैलास एव जगदेकगुरुर्गिरीशः ।

यस्याभयंकरमसंकरमस्तशङ्क-

मङ्कः
सुटङ्कमकलङ्कमलं करोति ॥ ४३ ॥
 

 
मेरुः स्वर्णाचलः मन्दरो मन्थाचलस्तत्प्रभृतिभिर्गिरिभिः किम् । न किंचित्कृत्य-

मित्यर्थः । सिद्धान्तमाह–कैलास एव गिरिर्गरीयानत्यन्तं गुरुर्गौरववान्भवति । अत्र

हेतुमाह -

स कैलासः कः । यस्य कैलासस्य गिरेरभयंकरं रक्षितारम् । सर्वसत्त्वानामिति

शेषः । असंकरम् अविद्यमानः संकरोऽवकरो मार्जनीक्षिप्तधूल्यादिर्यस्य तम् 'संकरो-

ऽवकरस्तया । क्षिप्ते' इत्यमरः । तथा सुटङ्कम् शोभनष्टङ्को विच्छित्तिरूपो यस्य स तम् ।

तथा अकलङ्कं विमलमङ्कं मध्यं जगतामेकगुरुरेकः शासको गिरीशो गिरेः कैलासस्येशो

गिरीशः श्रीशिवोऽलंकरोति भूषयति । निजनिवासानुग्रहेणेत्यर्थः ॥
 

 
उल्लङ्घ्य शासनमनन्यजशासनस्य
 

कोऽप्यन्यशासनमुपासितुमेति निष्ठाम् ।
 
.
 
-
 
Digitized by Google