This page has not been fully proofread.

८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
१०१
 
त्याश्चर्यम् । तथा कं विभुम् । हरम् । प्रलये कृत्स्नं हरतीति हरस्तम् । तथा अघोरम् ।
परचैतन्यानन्दघनाद्वयमहाभैरवात्मक स्वस्वरूपे प्रत्यभिज्ञापकत्वात् । तथानाश्रितसदाशिवे-
श्वरादिरूपभेदात्मपदप्रदत्वादघोरः परमानन्दप्रदस्तम्। यश्च हरो भवति स कथमघोरो
न घोरः परमसुखदायीत्याश्चर्यम् । तथा अजम् । न जातोऽजोऽभवोऽनादिर्ब्रह्मादिकार-
णानामपि कारणत्वात्सत्तामात्ररूपः । तथा सद्यस्तत्क्षणमेव जातः शिवादिक्षित्यन्तविश्व-
स्य निजप्रतिबिम्बभूतस्य नवनवोल्लासात्सद्योजातरूपः । ईशानतत्पुरुषाघोरवामदेवसद्यो-
जातानां पञ्चब्रह्मणां मध्ये सद्योजातस्तद्रूपमित्यर्थः । यश्चाजः स कथं सद्यो जातो भव-
तीत्याश्चर्यम् । एतेषां सर्वेषां पदानामन्यार्थत्वेऽविरोधः ॥
अस्मिन्भवाध्वनि महाविषमे ऽसमेषु-
रोषादितस्करतिरस्करणैकवीरम् ।
भीरुः श्रयामि शरणं क्षणदाकुटुम्ब
लेखाशिखामणिमनुत्तमशक्तिमीशम्
 
॥ ४२ ॥
 
अहमस्मिन्भवाध्वनि संसाराध्वनि महाविषमेऽत्यन्तदुर्गमे भीरुः सन्नसमेषुर्विषमेषुः
कामः रोषः क्रोधस्तदाद्या ये तस्करा दस्यवस्तेषां तिरस्करणेऽत्यन्तदमने एकवीरमीशं
परमेश्वरमनुत्तमशक्तिमविद्यमान उत्तमो यस्यास्तादृशी शक्तिः स्वातन्त्र्यशक्तिर्यस्य स
तादृशं क्षणदा कुटुम्बलेखाशिखामणि परमेश्वरं श्रयामि । एतद्द्वृत्तानुसारेण ममापि
वृत्तमेकम् । यथा –'पश्चेषुणा हृतविवेकधनं कृतान्तपञ्चास्यघोरतरहुंकृतिकातरं माम् ।
पञ्चेन्द्रियारिकृतवञ्चनपश्चभद्रं पातुं क्षमोऽस्ति किल पञ्चमुखः स देवः ॥ इति । 'पञ्च-
भद्र उपनुतः' इत्यमरः । अन्यत्स्पष्टम् ॥
 
किं मेरुमन्दर मुखैर्गिरिभिर्गरीया -
न्कैलास एव जगदेकगुरुर्गिरीशः ।
यस्याभयंकरमसंकरमस्तशङ्क-
म सुटङ्कमकलङ्कमलं करोति ॥ ४३ ॥
 
मेरुः स्वर्णाचलः मन्दरो मन्थाचलस्तत्प्रभृतिभिर्गिरिभिः किम् । न किंचित्कृत्य-
मित्यर्थः । सिद्धान्तमाह–कैलास एव गिरिगरीयानत्यन्तं गुरुगरववान्भवति । अत्र
हेतुमाह -
इस कैलासः कः । यस्य कैलासस्य गिरेरभयंकरं रक्षितारम् । सर्वसत्त्वानामिति
शेषः । असंकरम् अविद्यमानः संकरोऽवकरो मार्जनीक्षिप्तधूल्यादिर्यस्य तम् 'संकरो-
ऽवकरस्तया । क्षिप्ते' इत्यमरः । तथा सुटङ्कम् शोभनष्टको विच्छित्तिरूपो यस्य स तम् ।
तथा अकलङ्क विमलमङ्कं मध्यं जगतामेकगुरुरेकः शासको गिरीशो गिरेः कैलासस्येशो
गिरीशः श्रीशिवोऽलंकरोति भूषयति । निजनिवासानुग्रहेणेत्यर्थः ॥
 
उल्लङ्घ्य शासनमनन्यजशासनस्य
 
कोऽप्यन्यशासनमुपासितुमेति निष्ठाम् ।
 
.
 
-
 
Digitized by Google