This page has been fully proofread once and needs a second look.

कापालिकव्रत[^००
 
काव्यमाला ।
 
कापालिकव्रत
]समेतमपि द्विजेन्द्र-

चूडामणिणिं विभुमनङ्कुरामाश्रयामि ॥ ४० ॥
 

 
अहं निरङ्कुशं केनापि न निरुद्धं स्वतन्त्रं स्वेच्छया यथाभिलषितविधायिनं विभुमा-

श्रयामि। एतदेवाह - किंभूतम् । उद्दामदोषमुद्दामान उद्भटास्त्रिपुरान्धकासुराद्यनेकदैत्य-

वधोद्धुरा दोषो भुजा अष्टादश यस्य तम् । दोष्शब्दो हलन्तः । 'अष्टादशभुजं देवं नी-

लकण्ठं सुतेजसम्' इत्यागमोक्तिः । तथा दीर्घा गुणा अणिमादयोऽष्टौ अनन्यसामान्य-

शौर्यादिगुणा वा यस्य तम् । यश्वोचोद्दामदोषः स कथं सगुणो भवतीति विरोधः । अन्या

र्थत्वेन तदभावः । तथा किंभूतम् । भुजंगभोगा वासुकि नागादिकाया स्तैरुपगूढमा लिङ्गित

मपि रूढ उत्पन्नः शिखिनोऽग्नेस्तृतीयनेत्रस्थस्य प्रकर्षेण सङ्गो यस्य स तादृशम् । यश्च

सर्पभोगोपगूढः स कथं रूढः शिखिभिर्मयूरैः सह प्रसङ्गो यस्य स तादृशो भवति । म

यूराणामहिभुक्त्वादिति विरोध: । अन्यार्थत्वेन तदभावः । तथा कपालैर्महाप्रलयादौ का-

लाभिग्निरुद्ररूपधारिणा श्रीशिवभट्टारकेण संहृतब्रह्मादीनां कपालैर्दीव्यति कापालिकस्तस्य

व्रतेन समेतस्तादृशमपि द्विजेन्द्रचूडामणि द्विजानां नक्षत्राणामिन्द्रो द्विजेन्द्रश्चन्द्रः स

चूडामणिर्यस्य स तादृशम् । योऽपि कापालिकव्रतधरः स कथं द्विजेन्द्राणां विप्रवराणां

चूडामणिर्भवतीति विरोधः । अन्यार्थत्वेन विरोधाभावः ॥
 

 
अङ्गे धृताङ्गनमनङ्गकृताङ्गभङ्गं
 

विश्वाधिनाथमथ खण्डकपालपाणिम् ।

उग्रं शिवं हे[^२]हरमघोरमजं च सद्यो-

जातं च विस्मयनिधि विभुमाश्रयामि ॥ ४१ ॥
 

 
अहं विभुं त्रिलोकनाथं श्रीशिवं विस्मयनिधिमत्याश्चर्याश्रयमाश्रयामि । एतदेव वि-

शेषणमहिम्ना स्पष्टयति—अङ्गेत्यादि । किंभूतम् । धृताङ्गनम् । प्रशस्तान्यङ्गानि यस्याः

सा अङ्गना देवी स्वातन्त्र्यशक्तिरूपा । धृता अङ्गना येन स तम् । कुत्र । अङ्गे निजाङ्गे ।

वामभाग इत्यर्थः । तथा किंभूतम् । अनङ्गस्य कामस्य कृतोऽङ्गभङ्गो दाहेन भस्मीकरण-

रूपो येन तम् । अत्र योऽङ्गे निजाङ्गसविधे घृधृतस्त्रीकः स कथं कृतानङ्गभङ्गो भवतीत्या-

श्चर्यम् । तथा किंभूतम् । विश्वाधिनाथं विश्वं ब्रह्मादि स्तम्बपर्यन्तं तस्याधिनाथोऽधिको

नाथस्तम् । पुनः किंभूतम् । खण्डकपालपाणिम् । खण्डं कपालं ब्रह्मकपालं पाणौ यस्य

स तादृशम् । यश्च विश्वाधिनाथो जगति सम्राड् भवति स कथं खण्डकपालपाणि: ख-

ण्डघटकर्परपाणिर्भवति । तथा किंभूतम् । उग्रम् । 'उच समवाये' धातुः । उच्यति प्रल-

यकाले रौद्रत्वात्क्रुधा समवैतीत्युःयुग्रः । उद्गतः सर्वोपरि वर्तते वा उग्रस्तम् । तथा शिवम् ।

भक्तलोकानां भवोदध्युत्तरणरूप शिवकारित्वात् । यञ्श्चोप्ग्रः क्रूरो भवति स कथं शिव इ-

 
[^
]. 'समीपमपि' इति ख- पाठ.
[^
]. 'हरममोघ' इति क-पाठः.
 
Digitized by Google