This page has not been fully proofread.

१००
 
काव्यमाला ।
 
कापालिकव्रतसमेतमपि द्विजेन्द्र-
चूडामणि विभुमनङ्कुरामाश्रयामि ॥ ४० ॥
 
अहं निरङ्कुशं केनापि न निरुद्धं स्वतन्त्रं स्वेच्छया यथाभिलषितविधायिनं विभुमा-
श्रयामि। एतदेवाह - किंभूतम् । उद्दामदोषमुद्दामान उद्भटास्त्रिपुरान्धकासुरायनेकदैत्य-
वधोद्धुरा दोषो भुजा अष्टादश यस्य तम् । दोष्शब्दो हलन्तः । 'अष्टादशभुजं देवं नी-
लकण्ठं सुतेजसम्' इत्यागमोक्तिः । तथा दीर्घा गुणा अणिमादयोऽष्टौ अनन्यसामान्य-
शौर्यादिगुणा वा यस्य तम् । यश्वोद्दामदोषः स कथं सगुणो भवतीति विरोधः । अन्या
र्थत्वेन तदभावः । तथा किंभूतम् । भुजंगभोगा वासुकि नागादिकाया स्तैरुपगूढमा लिङ्गित
मपि रूढ उत्पन्नः शिखिनोऽग्नेस्तृतीयनेत्रस्थस्य प्रकर्षेण सङ्गो यस्य स तादृशम् । यश्च
सर्पभोगोपगूढः स कथं रूढः शिखिभिर्मयूरैः सह प्रसङ्गो यस्य स तादृशो भवति । म
यूराणामहिभुक्त्वादिति विरोध: । अन्यार्थत्वेन तदभावः । तथा कपालैर्महाप्रलयादौ का-
लाभिरुद्ररूपधारिणा श्रीशिवभट्टारकेण संहृतब्रह्मादीनां कपालैर्दीव्यति कापालिकस्तस्य
व्रतेन समेतस्तादृशमपि द्विजेन्द्रचूडामणि द्विजानां नक्षत्राणामिन्द्रो द्विजेन्द्रश्चन्द्रः स
चूडामणिर्यस्य स तादृशम् । योऽपि कापालिकव्रतधरः स कथं द्विजेन्द्राणां विप्रवराणां
चूडामणिर्भवतीति विरोधः । अन्यार्थत्वेन विरोधाभावः ॥
 
अङ्गे धृताङ्गनमनङ्गकृताङ्गभङ्गं
 
विश्वाधिनाथमथ खण्डकपालपाणिम् ।
उग्रं शिवं हेरमघोरमजं च सद्यो-
जातं च विस्मयनिधि विभुमाश्रयामि ॥ ४१ ॥
 
अहं विभुं त्रिलोकनाथं श्रीशिवं विस्मयनिधिमत्याश्चर्याश्रयमाश्रयामि । एतदेव वि-
शेषणमहिम्ना स्पष्टयति—अत्यादि । किंभूतम् । धृताङ्गनम् । प्रशस्तान्यङ्गानि यस्याः
सा अङ्गना देवी स्वातन्त्र्यशक्तिरूपा । धृता अङ्गना येन स तम् । कुत्र । अङ्गे निजाङ्गे ।
वामभाग इत्यर्थः । तथा किंभूतम् । अनङ्गस्य कामस्य कृतोऽङ्गभङ्गो दाहेन भस्मीकरण-
रूपो येन तम् । अत्र योऽङ्गे निजाङ्गसविधे घृतस्त्रीकः स कथं कृतानङ्गभङ्गो भवतीत्या-
श्चर्यम् । तथा किंभूतम् । विश्वाधिनाथं विश्वं ब्रह्मादि स्तम्बपर्यन्तं तस्याधिनाथोऽधिको
नाथस्तम् । पुनः किंभूतम् । खण्डकपालपाणिम् । खण्डं कपालं ब्रह्मकपालं पाणौ यस्य
स तादृशम् । यश्च विश्वाधिनाथो जगति सम्राड् भवति स कथं खण्डकपालपाणि: ख-
ण्डघटकर्परपाणिर्भवति । तथा किंभूतम् । उग्रम् । 'उच समवाये' धातुः । उच्यति प्रल-
यकाले रौद्रत्वात्क्रुधा समवैतीत्युः । उद्गतः सर्वोपरि वर्तते वा उग्रस्तम् । तथा शिवम् ।
भक्तलोकानां भवोदध्युत्तरणरूप शिवकारित्वात् । यञ्चोप्रः क्रूरो भवति स कथं शिव इ-
१. 'समीपमपि' इति ख- पाठ. २. 'हरममोघ' इति क-पाठः.
 
Digitized by Google