This page has been fully proofread once and needs a second look.

८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
कात्यायनीं सुरधुनीं च विभुर्बिभर्ति

निर्वाणदं शरणमेमि तमिन्दुमौलिम् ॥ ३८ ॥
 

 

 
अहं तमिन्दुमौलिलिं चन्द्रशेखरं श्रीशिवं निर्वाणदमात्यन्तिकदुःख

निवृत्तिरूपं मोक्षं द-

दातीति निर्वाणदस्तादृशं शरणं रक्षितारमेमि व्रजामि । 'शरणं गृहरक्षित्रोः' इत्यमरः ।

तं कमित्याह – यो विभुः कात्यायनीं गौरीं पार्वतीम् । 'गौर्यजातरजःकन्या पार्वतो त्रिषु

पाण्डुनि । पोतेऽरुणे च' इति मङ्गःखः । सुरनदीं गङ्गां च बिभर्ति धारयति । किंभूतां

गौरीं पार्वतीम् । गजास्यजननीं गजास्यस्य गणपतेर्जननी ताम् । तथा हिमवतो गिरी-

न्द्रात्प्रसूतिरुत्पत्तिर्यस्यास्ताम् । तथा सद्य एव स्मरणदर्शनांद्यनन्तरमेव पवित्रितं जग-

त्रितयं यया । गङ्गापक्षे गौरीं विमलां धवलां च । अन्यत्समानम् ॥

 
क्वाप्युद्धृतक्रतुविधातृमृगोत्तमाङ्ग-

मुत्सङ्गसंगतमृगं क्वै[^१]क्वचिदोषधीशम् ।

क्रूरं क्वचिन्मृगवघैधैकरतितिं किरातं
 

वातं क्वचिन्मृगरथं विभुमाश्रयामि ॥ ३९ ॥
 
*
 

 
अहमेवंभूतं विभुं त्रिजगदधीशं स्वतन्त्रमाश्रयामि । शरणमिति शेषः । किंभूतम् ।

क्वापि कस्मिन्नपि काले उद्धृतमुच्चैर्हतं छेदितं विधातुर्ब्रह्मणो मृगस्य मृगरूपस्योत्तमाङ्गं

शिरो येन स तम् । तथा हि पुराणेषु प्रसिद्धम् - ब्रह्मा स्वां दुहितरं संध्यामतिरूपवतीं

विलोक्य कामोद्रेकाद्लात्तामुपगन्तुमुद्यतः । सा च पिता भूत्वा मामयमुपगच्छतीति

ज्जया मृगी बभूव । ततस्तां तथाभूतां दृष्ट्वा ब्रह्मापि मृगरूपमधारयत् । तच्च दृष्ट्वा त्रि-

जगन्नियन्त्रा महेश्वरेण श्रीशिवभट्टारकेणायं प्रजानाथो धर्मप्रवर्तको भूत्वाप्येतादृशं जुगु-

प्सितमाचरतीति महतापराधेन दण्डनीयो मयेति पिनाकमाकृष्य शरः प्रक्षिप्तः । तेन

ब्रह्मणः शिरश्छिन्नम् । तन्मृगशिरो नक्षत्ररूपं बभूवेति । तथा क्वचित्कदाचित्काले उत्सङ्गे

मध्यभागे संगतो मिलितो मृगोऽत्र शशो यस्य स तादृशमोषधीशं चन्द्रं चन्द्ररूपम् ।

चन्द्रमूर्तिधरमित्यर्थः । अष्टसु मूर्तिषु मध्ये चन्द्रमूर्तिधरत्वात् । तथा क्वचिन्मृगाणां ह

रिणादीनां वधे एका रतिः सुखं यस्य स तादृशं किरातरूपम् । तथा क्वचिद्वातं वायुरूपं

वायुमूर्तिधरम् । अष्टसु मूर्तिषु वायुमूर्तिधरत्वादपि विभोः । वातं किंभूतम् । मृगरथं

मृगो रथभूतो यस्य स तादृशम् । पृषदश्व इति वायोः प्रसिद्धेः । तदेवं भगवाञ्श्रीशि-
वहा

वभट्टा
रकोऽनेकरूपः स्वतन्त्र इत्यर्थः । क्वचिन्मृगस्य वधात्क्वचिद्रक्षणादत्र स्वतन्त्रत्वं

विभोः ॥
 

 
उद्दामदोषमपि दीर्घगुणं भुजंग-

भोगोपगूढमपि रूढर्[^२]शिखिप्रसङ्गम् ।
 

 
[^
]. 'ददोषधीशम्' इति क-पाठ:.
[^
]. 'शिवप्रसङ्गम्' इति ख- पाठः,
 
९९
 
Digitized by Google