This page has been fully proofread once and needs a second look.

९८
 
काव्यमाला ।
 
यः क्षीरनीरनिधिमङ्घ्रितले सुधाम्म:-

कुम्भं करे शिरसि देवैव[^१]नदीमदीनाम् ।

हर्तुं बिभर्ति भविनामणुकर्ममाया-

मूलं मलत्रयमयं तमहं श्रयामि ॥ ३६ ॥

 
अयमहं तमीश्वरं श्रयामीति संबन्धः । यः श्रीशंभुरक्तिङ्घ्रितले पादतल क्षीरनीरधिधिं क्षी-

रोदधिधिं बिभर्ति । तथा सुधाकुम्भं सुधाकलशं च करे पाणौ बिभात । 'देवं सुधाकलशसो-

मकरं' इति ध्यानोक्तेः । तथा अदीनामुद्भटाम् । तरङ्गभङ्गथेग्येत्यर्थः । गङ्गां च शिरसि बिभर्ति ।

अत्र विभीर्निजाङ्गेषु चरणादिषु त्रिष्वमृतरसापूर्णमहाशीतलक्षीरोदध्यादिवस्तुत्रयधारणे

उत्प्रेक्षाध्वनिपूर्वकहेतुं युक्तमाइ । किं कर्तुम् । भविनां जन्मिनामणुकर्ममायामूलमणुः

पुद्गल आत्मा, कर्म शुभाशुभम्, माया अविद्यापरपर्यायं परमात्मनः परमशिवाद्विश्वस्य

भेदप्रथारूपमज्ञानम्, सैव मूलं कारणं यस्य तत्तादृशं मलत्रयमाणवमायीयकार्मरूपं हतु
र्तुं
दूरीकर्तुम् । अत्रेवशब्दस्यार्थत्वाद्गम्यमानोत्प्रेक्षा । हर्तुमिव बिभर्तीति भावः ॥

 
यस्यापगा स्त्रगिव सौमनसी जटासु
 

यः कौमुदीं विरचनामिव मूर्ध्नि धत्ते ।

देवीं वराभयकरामपि यो बिभर्ति
 

प्रीतः शिवां दृशमिव प्रभुमाश्रये तम् ॥ ३७ ॥
 
.
 

 
अहं त्वां प्रभुं त्रिजगदधीशं श्रीशिवमाश्रये शरणं भजामि । तं कमित्याह – यस्य

प्रभोर्जटास्वापगा आपेन अप्संबन्धिना वेगेन गच्छतीत्यापगा नदी गङ्गा सौमनसी ।

'सुमना मालती जातिः' इत्यमरः । स्रगिव मालतीकुसुममालेव । अनायासकारिणी

हृद्या च जटासु भातीति शेषः । तथा यः प्रभुः कौमुदीं कुमुदस्य कैरवस्येयं प्रियत्वा-

त्कौमुदी ज्योत्स्ना तां विरचनामिव विलेपनमिव मूर्ध्नि शिरसि धत्ते । तथा यः प्रभुः

शिवां देवीं वरश्चाभयं च वरमुद्रा चाभयमुद्रा चं करयोर्वामदक्षिणयोर्यस्याः सा वराभय-

करा । तथा चोक्तं श्रीस्वच्छन्दतन्त्रराजे - 'वामं भुजं प्रसार्यैव जानूपरि निवेशयेत् ।

प्रसृतं दर्शयेद्दक्षं वरः सर्वार्थसाधकः ॥ अग्रे प्रसारितो हस्तः श्लिष्टशाखो वरानने । परा-

ङ्मुखं च तं कृत्वा अभयः परिकीर्तितः ॥' इति । कमिव । दृशमिव । प्रीतः संस्तुष्टः स

न्यथा दृशं धत्ते । दृष्टि: सापि कीदृशी । वरं देवाद्वतमभीष्टमभयं भयाभावं च करोतीति

वराभयकरा ताम् ॥
 

 
गौरीरीं गजास्यजननीं हिमवत्प्रसूति
 
तिं
सद्यः पवित्रित जगत्रितयां य एकः ।
 

 
[^
]. 'सिद्धनदीं' इति ख- पाठ:.
 
Digitized by Google