This page has not been fully proofread.

८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
९७
 
यस्य स तम् । तथा संश्रितानां शरणोपनतानामातिस्तं हरतीति तादृशं विभुं श्रीशि-
वहारकं शरणं श्रयामीति पूर्वेण सह संबन्धः ॥ पञ्चविंशत्या कुलकम् ॥
देवं श्रयामि तमहं मुकुटोरगेन्द्र-
स्फूर्जत्फणामणिसहस्त्रमिषेण यस्य ।
भालानलेन मुरसिन्धुजलोक्षितेन
 
प्रोन्मुक्तमङ्करसहस्त्रमिवाचकास्ति ॥ ३४ ॥
 
अहं तं देवं श्रीशंभुं शरणं श्रयामीति संबन्धः । तं कमित्याह – मुकुटेत्यादि । यस्य
श्रीशिवस्य मुकुटे य उरगेन्द्रः सहस्रफणः शेषस्तस्य याः फणास्तासु मणयस्तत्सहस्रस्य
मिषेण व्याजेन सुरसिन्धुजलोक्षितेन गङ्गाजलसेचितेन भालानलेन ललाटस्थतृतीयने-
त्राग्निना प्रोन्मुक्तमङ्कुरसहस्रमिवाचकास्ति शोभते । सेकादनन्तरं हि प्रणेहोत्पत्तिर्भवति ।
अद्भुतं जलसेचनादमिशिखोद्दीपनम् ॥
 
सानुग्रहोत्तमगणाश्रितपादमूलं
मूर्ध्ना धृताभ्रसरितं सतुषारमूर्तिम् ।
आसेवितं विषधरैः कटकेषु ताप-
शान्त्यै गिरीशमतिहृद्यगुहं श्रयामि ॥ ३५ ॥
 
अहं गिरीशम् । 'गिरेः कैलासस्येशो गिरीशः' इति रायमुकुटीकारः । 'गिरेः कैलास-
स्येश उपभोग्यत्वागिरीशः' इति सौगतमुनिटीकायाम् । अथ च गिरीणां पर्वतानामोशो
गिरीशो हिमवांस्तम् । रूपकम् । हिमवन्तमिव वा । तापस्याध्यात्मिकाधिदैविकाधिमौ-
तिकरूपस्य शान्त्यै श्रयामि । अन्योऽप्यतितापशान्त्यै हिमवन्तं श्रयति । उभावपि विशि-
नष्टि – गिरिशं श्रीशिवं किंभूतम् । सहानुग्रहेण प्रसादेन वर्तन्ते ये ते सानुग्रहा उत्तमानां
प्रधानानां गणाः समूहाः । 'समवायश्चयो गणः' इत्यमरः । तैराश्रितं पादयोश्चरणयोर्मूलं
यस्य तम् । तथा मूर्ध्ना शिरसा धृता अभ्रसरिङ्गा येन स तम् । तुषारा शीतला अमृ
तमयी मूर्तिर्यस्य स तुषारमूर्तिश्चन्द्रः । सह तुषारमूर्तिना चन्द्रेण वर्तते यः स तम् । तथा
कटकेषु कङ्कणेषु विषधरैः सर्पैरासेवितम् । तथा अतिहृद्योऽतिशयेन प्रियो गुहः षण्मुखो
यस्य तम् । हिमवन्तमपि कीदृशम् । सानूञ्शेखरान्गृह्णन्तीति सानुग्रहा ये गणा रुद्रानु-
चरा नन्दिभृङ्गिरिटाद्यास्तैराश्रितं पादानां प्रत्यन्तपर्वतानां मूलं यस्य स तम् । पुनः
किंभूतम् । मूर्ध्ना शिरसा धृताभ्रसरितं धृतगङ्गम् । धृतान्यभ्राणि मेघा याभिस्ता गृही
तमेघाः सरितो नद्यो यत्र तमिति वा । पुनः किंभूतम् । सतुषारा सहिमा मूर्तिर्यस्य
सः । हिमाश्रयत्वात् । तम् । पुनः किंभूतम् । कटकेषु पर्वत नितम्बेषु । 'कटकोऽस्त्री
नितम्बोऽद्रेः' इत्यमरः । विषधरैः सर्वैर्जलधरैघैर्वा । 'मेघानां यद्रयो मित्राणि' इत्युक्त-
त्वात् । आसेवितम् । पुनः किंभूतम् । अतिहृद्या गुहा देवखातबिलानि यस्य स तम् ।
विषशब्दो जलवाचकश्च ॥
 
१३
 
Digitized by Google