This page has been fully proofread once and needs a second look.

९६
 
काव्यमाला ।
 
पद्मयोरपि' इति विश्वः । तीरे अरविन्दानि कमलानि । 'फुल्लारविन्द' इति पाठः ।

फुल्लानि यान्यरविन्दानि पद्मानि तेषां मकरन्दे परागे धृतः प्रकर्षेण सङ्गो याभिस्ता भृ-

ङ्गाङ्गना अलिन्यस्तासां यो गुमगुमारवः । गुमगुमेति शब्दानुकरणम् । गुमगुमेत्यारवः

स एव गीतिर्गर्भे यस्य तत्। यस्य विभोः पूर्वोक्तानेकापदानस्तुतिरूपं चरितं गायन्ति ॥

 
व्यक्तोज्ज्वलालिकचितं मुखमायताक्षं

विस्तीर्णकर्णिकमनर्गलरूढनालम् ।

यं शंसतोऽधिवसति स्वयमुक्तिदेवी

राजीवसद्मकमलाविजिगीषयेव ॥ ३२ ॥
 

 
स्वयमेवोक्तिदेवी वाग्देवी यं विभुं शंसतो भक्तजनस्य मुखं वदनमधिवसत्याश्रयति ।

कयेव । राजीवसद्मकमलाविजिगीषयेव पद्मालयलक्ष्मीजिगीषयेव । भक्तजनवदनं कमलं

च द्वे अपि विशिनष्टि – मुखं किंभूतम् । व्यक्तमुज्ज्वलं धवलं चालिकं ललाटम् ।

'ललाटमलिकं गोधिः' इत्यमरः । तेन चितं व्याप्तम् । तथा आयते अक्षिणी नेत्रे यस्य

तत् । तथा विस्तीर्णा कर्णिका कर्णाभरणं यस्य तत् । तथा अनर्गलं विषमतारहितं

रूढं नालं कण्ठो यस्य तत् । राजीवं पद्मं च किंभूतम् । व्यक्ता उज्ज्वलाश्चालयो भ्रम-

रास्तैः कचितं शोभितम् । 'व्यक्तोज्ज्वलालि' इति भिन्नपदं वा । तथा आयतान्य-

क्षाणि पद्मबीजानि यस्य तत् । 'रथांशेऽक्षो दैत्यभेदे पाशकवूद्यूतयोरपि । बीजे बिभी-

तके कर्षे स्रोतोग्रे क्लीब इन्द्रिये ॥ सौवर्चले' इति मङ्गःखः । तथा विस्तीर्णा कर्णिका

यस्य तत् । 'कर्णिका कर्णभूषणे । करिहस्ताङ्गुलौ पद्मकोषे इत्यमरः । तथा अनर्गलं

रूढं नालं वृन्तं यस्य तत् । लक्ष्म्या पद्ममधिष्ठितमिति तत्स्पर्धया शब्दश्लेषेण तत्समा-

नगुणं श्रीशिवभक्तमुखमाश्रयामीत्यर्थः ॥
 

 
आपन्नबान्धवमवन्ध्यवचोविलास-

मासन्नमैम[^१]ज्जननमज्जन सान्त्वनेषु ।
 

देवं सुधाकरकिशोरकृतावतंसं
 

तं संश्रितातिहरणं शरणं श्रयामि ॥ ३३ ॥
 

(पञ्चविंशत्या कुलकम् )
 

 
आपन्नानां शरणागतानां बान्धवस्तम् । तथा अवन्ध्यः सफलो मनोतिगवरप्रदानाद्व-

चनानां विलासो यस्य तम् । केष्वित्याह-

आसन्नेत्यादि । आसन्नं मज्जनं भवोदधौ

मायामोहतरङ्गाकुले ब्रुडनं येषां ते तादृशा ये नमन्तो भक्तिप्रहाह्वा जनास्तेषां सान्त्वनानि

'मा भैष्ट' इत्याद्या श्वसनानि तेषु । तथा सुधाकरकिशोरो बालचन्द्रस्तेन कृत अवतंसो
 

 
[^
]. 'सज्जन' इति ख- पाठः.
 
Digitized by Google