This page has not been fully proofread.

९६
 
काव्यमाला ।
 
पद्मयोरपि' इति विश्वः । तीरे अरविन्दानि कमलानि । 'फुलारविन्द' इति पाठः ।
फुल्लानि यान्यरविन्दानि पद्मानि तेषां मकरन्दे परागे धृतः प्रकर्षेण सङ्गो याभिस्ता भृ-
ङ्गाङ्गना अलिन्यस्तासां यो गुमगुमारवः । गुमगुमेति शब्दानुकरणम् । गुमगुमेत्यारवः
स एव गीतिर्गर्भे यस्य तत्। यस्य विभोः पूर्वोक्तानेकापदानस्तुतिरूपं चरितं गायन्ति ॥
व्यक्तोज्ज्वलालिकचितं मुखमायताक्षं
विस्तीर्णकर्णिकमनर्गलरूढनालम् ।
यं शंसतोऽधिवसति स्वयमुक्तिदेवी
राजीवसद्मकमलाविजिगीषयेव ॥ ३२ ॥
 
स्वयमेवोक्तिदेवी वाग्देवी यं विभुं शंसतो भक्तजनस्य मुखं वदनमधिवसत्याश्रयति ।
कयेव । राजीवसद्मकमलाविजिगीषयेव पद्मालयलक्ष्मीजिगीषयेव । भक्तजनवदनं कमलं
च द्वे अपि विशिनष्टि – मुखं किंभूतम् । व्यक्तमुज्ज्वलं धवलं चालिकं ललाटम् ।
'ललाटमलिकं गोधिः' इत्यमरः । तेन चितं व्याप्तम् । तथा आयते अक्षिणी नेत्रे यस्य
तत् । तथा विस्तीर्णा कर्णिका कर्णाभरणं यस्य तत् । तथा अनर्गलं विषमतारहितं
रूढं नालं कण्ठो यस्य तत् । राजीवं पद्मं च किंभूतम् । व्यक्ता उज्ज्वलाश्चालयो भ्रम-
रास्तैः कचितं शोभितम् । 'व्यक्तोज्ज्वलालि' इति भिन्नपदं वा । तथा आयतान्य-
क्षाणि पद्मबीजानि यस्य तत् । 'रथांशेऽक्षो दैत्यभेदे पाशकवूतयोरपि । बीजे बिभी-
तके कर्षे स्रोतोग्रे क्लीब इन्द्रिये ॥ सौवर्चले' इति मङ्गः । तथा विस्तीर्णा कर्णिका
यस्य तत् । 'कर्णिका कर्णभूषणे । करिहस्ताङ्गुलौ पद्मकोषे इत्यमरः । तथा अनर्गलं
रूढं नालं वृन्तं यस्य तत् । लक्ष्म्या पद्ममधिष्ठितमिति तत्स्पर्धया शब्दश्लेषेण तत्समा-
नगुणं श्रीशिवभक्तमुखमाश्रयामीत्यर्थः ॥
 
आपन्नबान्धवमवन्ध्यवचोविलास-
मासन्नमैज्जननमज्जन सान्त्वनेषु ।
 
देवं सुधाकरकिशोरकृतावतंसं
 
तं संश्रितातिहरणं शरणं श्रयामि ॥ ३३ ॥
 
(पञ्चविंशत्या कुलकम् )
 
आपन्नानां शरणागतानां बान्धवस्तम् । तथा अवन्ध्यः सफलो मनोतिगवरप्रदानाद्व-
चनानां विलासो यस्य तम् । केष्वित्याह-
आसन्नेत्यादि । आसन्नं मजनं भवोदधौ
मायामोहतरङ्गाकुले ब्रुडनं येषां ते तादृशा ये नमन्तो भक्तिप्रहा जनास्तेषां सान्त्वनानि
'मा भैष्ट' इत्याद्या श्वसनानि तेषु । तथा सुधाकरकिशोरो बालचन्द्रस्तेन कृत अवतंसो
 
१. 'सजन' इति ख- पाठः.
 
Digitized by Google