This page has been fully proofread once and needs a second look.

८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
कृता संमतिरेकीभूय सम्यक्प्रकारेण मतिर्याभिस्ता वसन्ति । एता का इत्याह-का-

त्यायनीत्यादि । कात्यायनी भगवती । करुणा कृपा । चान्द्री कला । सुरसरिद्गङ्गा ।

स्निग्धा सदया दृक् । सरस्वती वाग्वादिनी च ॥

 
संतापसंपदपहारपटूनि सिद्ध-

सिन्धोरिवेन्दुधवलानि जलानि यस्य ।

आकल्पयन्ति मदयन्ति पवित्रयन्ति
 

संजीवयन्ति च जगन्ति भृशं यशांसि ॥ २९ ॥

 
सम्यक्ताप
आध्यात्मिकादिर्भवमरुभ्रमणजो वा तस्य संपत् तदपहारे दूरीकरणे

पटूनि प्रगल्भानि । तथा इन्दुधवलानि सुधांशुवद्धवलानि सिद्धसिन्धोर्गङ्गाया जलानीव

जगन्ति त्रीण्यपि भृशमाकल्पयन्ति भूषयन्ति मदयन्त्यानन्दयन्ति पवित्रयन्ति संजी-
सम्यक्ताप
 

वयन्ति च ॥
 

 
दुष्कालसंकटकटा हकदर्शिहकदर्थितानां
 

तीब्व्राभिमानमनसां घनसारभांसि ।

[^१]
भिन्दन्त्यमन्दहरिचन्दनबिन्दुवृन्द-

संदोहदोहदमहो चरितानि यस्य ॥ ३० ॥
 

 
यस्य विभोश्चरितानि रविजभयत्रस्त श्वेतनृपाभयप्रदानादीनि घनसारभांसि । 'घ

नसारश्चन्द्रसंज्ञः कर्पूरः' इत्यमरः । घनसारवत्कर्पूरवद्भा दीप्तिर्येषां तानि । दुष्टश्चासौ

कालो वर्तमानतुरीययुगसमयः स एव संकटकटाहः संकुचितकटाहस्तेन कदर्शिता व्य-

थितास्तत्र वा ये तेषाम् । तीवाभिमानमनसां मनस्विजनानां तीव्राभिमानयुक्तं मनो येषां

ते । अमन्दा बहवो ये हरिचन्दनबिन्दवः । 'हरि कपिलं तदूद्वर्णत्वात् । हरेरिन्द्रस्य

वा चन्दनं हरिचन्दनम्' इति रायमुकुट्याम् । 'श्रीखण्डाख्यम्' इति स्वामी । तेषां वृ-

न्दम् । संदोहो वृन्दप्रवाहस्तत्र दोहदमभिलाषं भिन्दन्ति वारयन्ति ॥
 

 
तीरारविन्दमकरन्दधृत[^३]प्रसङ्ग-

भृङ्गाङ्गनागुमगुमारवगीतिगर्भम् ।

गायन्ति यस्य चरितं हरितामधीशा
 

धीशालिनः कमलिनीपुलिनस्थलीषु ॥ ३१ ॥
 

 
अहो आश्चर्यम् हरितामधीशा दिक्पाला दश । 'सूर्याश्वेषु हरित्पुंसि नीले त्रिषु

दिशि स्त्रियाम्' इति मङ्खः । धोशालिनो धिया शालन्ते तादृशाः कमलिनीनां पुष्करि-

णीनां देवकासाराणां पुलिनस्थल्यस्तीरभूमयस्तासु । 'कमलिनी स्यात्कासारे पद्मिनी-

 
[^
]. 'निन्दन्ति' इति ख- पाठ:.
[^
]. 'प्रसङ्गात्' इति क-पाठः.
 
Digitized by Google