2023-10-09 12:26:54 by jayusudindra
This page has been fully proofread once and needs a second look.
काव्यमाला ।
दपदानोद्भूतानि गायन्ति । कस्य यं विभुं श्रितवतः श्रीशिवभक्तजनस्य । द्वावपि वि
शिनष्टि—महतीं सूक्
श्रोतृसहृदयजनस्य श्रवणयोरमृतं
भणितिमित्यर्थः । 'वक्रभणितिः प्रसिद्धप्रस्थानव्यतिरेकिणी समुज्ज्वला भक्तिः' इत्यालं-
कारिकाः । तथा अभ
कवयः । वंशः कुलम्, विद्या च चतुर्दशविधा, ते परिशुद्धे येषाम् । परिवादका वैणिकाश्च
किंभूताः । महतीं शततन्त्रीकामेकविंशतितन्त्रीकां वा वीणां वहन्तः । किंभूतां महतीम् ।
सूक्ति शोभना उक्तिर्यस्यास्ताम् । तथा शुचि सुस्वराम् । श्रोतृकर्णयोरमृतं स्रवन्तीम् ।
वक्रां कुटिलाम् । अभङ्गुरा दृढा गुणास्तन्त्र्यो यस्यास्ताम् ॥
यत्सेवकस्य मदनोल्बणबाणपूग-
क्रान्तालिकान्तविकसत्तिलकोज्ज्वलश्रीः ।
सेव्या[^१] भवत्यवसरे कलकण्ठनाद-
हृद्या वधूः कुसुमितोपवनस्थली च ॥ २७ ॥
यस्य श्रीशंभोः सेवको भक्तजनस्तस्यावसरे रहःस्थानावसरे कुसुमिता ऋतुमती
अवसरे ऋतौ गर्भग्रहणकाले वा सेव्या भवति । तथा कुसुमिता प्रफुल्ला कुसुमयुता उ
पवनस्थली च अवसरे सेव्या भवति । उभे अपि विशिनष्टि-वधूः किंभूता । मदनस्य
कामस्योल्
पूगस्तेन क्रान्ता । तथा अलिकस्य ललाटस्यान्तः । 'ललाटमलिकं गोधिः' इत्यमरः ।
तत्र विकसन्तो तिलकस्य चित्रकस्योज्ज्वला श्रीः शोभा यस्याः सा । तथा कलो म
धुरो यः कण्ठनादः स्वरस्तेन हृद्या । उपवनस्थली च किंभूता । मदना वृक्षविशेषा उ
ल्बणा उन्नताश्च बाणा वृक्षविशेषाः पूगाश्च वृक्षविशेषास्तैः क्रान्ता व्याप्ता । तथा अलि-
भिर्भ्रमरैः कान्तश्चासौ विकसंश्च तिलको वृक्षभेदः । यः कान्ताकटाक्षैर्विकसति । तेनो-
ज्ज्वला रम्या श्रीर्यस्याः । तथा कलकण्ठानां कोकिलानां नादेन कुहूरुतेन हृद्या रम्या ॥
यस्मिन्नखिन्नमनसो व्यसनावसन्न-
संतापशान्तिकृतसं
कात्यायनी च करुणा च कला च चान्द्री
स्निग्धा च
यस्मिन्भगवत्येताः कात्यायनीप्रभृतयोऽखिन्नमनुद्वेगं मनो यासां ताः । तथा व्यस-
नेन भवमरुभ्रमणजसंतापकष्टेनावसन्नाः खेदिता ये भक्तलोकास्तेषां संतापशान्तौ
[^१]. 'देव्या' इति ख-
[^२]. 'संगतयः' इति क-पाठः.
Digitized by Google