2023-02-23 21:27:14 by ambuda-bot
This page has not been fully proofread.
८ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
उद्गाढभक्तिविधुरव्यपनीततीव्र-
दोषान्धकारमतिमात्रशुचिप्रकाशम् ।
पीयूषमुहमति यस्य विविक्तवर्ण
कर्णान्तगामि वचनं च विलोचनं च ॥ २४ ॥
एतादृशं यस्य विभोर्वचन तथा विलोचनं नेत्रं च । जातावेकवचनम् । लोचनत्रयं
च पीयूषममृतमुद्रमति स्रवति । द्वे अपि विशिनष्टि - यस्य विभोर्वचनं किंभूतम् ।
उद्गाढात्यन्तदृढा भक्तिर्वाङ्मनःकायकर्मभिस्तदेकताध्यानासक्तिर्येषां तादृशा ये वि
धुरा भवभयार्तास्तेषां व्यपनीतः श्रीशिवभेदप्रथावबोधरूपो दोष एवान्धकारो येन
तत् । पुनः किंभूतम् । अतिमात्रं शुचि निर्मलं पवित्रं च । तथा प्रकाशं व्यक्तम् ।
तथा विविक्ताः पृथक्पृथक्स्थिता वर्णा अक्षराणि यस्मिंस्तत् । तथा कर्णान्तगामि ।
भक्तजनस्येत्यर्थः । विलोचनं लोचनत्रयमपि किंभूतम् । उद्गाढात्यन्तदृढा भक्तिवि-
च्छित्तिर्ययोस्तौ विधुरवी विधुश्चन्द्रो रविः सूर्यश्च तौ । ताभ्यां विधुरविभ्यामपनीतो
दोषाया रात्रेरन्धकारो येन तत् । रविचन्द्रयोर्दक्षिणवामनेत्र स्थितत्वाद्विभोः । पुनः
किंभूतम् । अतिमात्रं शुचेरग्नेः प्रकाशो यस्मिन् । तथा विविक्ताः पृथक्पृथक्स्थिता वर्णाः
श्वेतकृष्णलोहिता यस्मिंस्तत् । तथा कर्णान्तगामि कर्णान्तायतमित्यर्थः ॥
पात्रीभवन्ति न यदविसरोजरेणु-
मैत्रीपवित्रशिरसः स्थिरसत्यवाचः ।
साटोपकोपविकट कुटिच्छटाना-
मुत्तालकालभटवऋविभीषिकाणाम् ॥ २९ ॥
स्थिरा सत्यवाग्येषां ते स्थिरसत्यवाचो यस्य प्रभोरग्रिसरोजरेणूनां चरणकमलरजसां
मैया परिचयेन पवित्रं शिरो येषां ते तादृशा धन्या जनाः सह आटोपेनाडम्बरेण व-
र्तते यः स चासौ कोपस्तेन विकटा विस्तीर्णा भ्रुकुटिच्छटा यासु तासाम् । उत्ताला
उद्भटा ये कालभटा यमकिंकरास्तेषां वक्रेषु या विभीषिका भयविकृतिसंदर्शनानि ता-
साम् । यद्वा उत्तालं त्वरितं कृत्वा या विभीषिकास्तासां न पात्रीभवन्ति । कटिनय
मभटवक्रमीतिसंदर्शनविकृतीर्न पश्यन्तीत्यर्थः ॥
सूकिं शुचिं श्रवणयोरमृतं स्त्रवन्तीं
वक्रामभङ्गुरगुणां महतीं वहन्तः ।
गायन्ति यं श्रितवतः परिशुद्धवंश -
विद्या यशांसि कवयः परिवादकाच ॥ २६ ॥
१. 'यगाढ' इति ख- पाठ:. २. 'भ्रुकुटीछलानां' इति ख-पाठः ३. 'वहन्तीं' इति
क-पाठः ४. 'शंसन्ति' इति क-पाठः.
Digitized by Google