This page has been fully proofread once and needs a second look.

९२
 
काव्यमाला ।
 
यस्याङ्गसङ्गि शवभस्मकपालमाला-

हालाहलाहिदहनाद्यपि हृद्यमेव ॥ २१ ॥
 

 
तदेतद्युक्तम् । किमित्याह - सुधाकरश्चन्द्रः । सुधाकरकः सुधाकमण्डलुः । 'कमण्डली

दाडिमेना करकः करिकः पुनः । मद्यभाण्डे च करका भवेद्वर्षोपले द्वयोः ॥ इति मङ्गः ।
खः ।
द्
युसिन्धुस्तस्यास्तोयं गङ्गाजलं तदादिर्यस्य तत् तापं त्रिजगत्सर्गादिव्यापारजं संतापं

यस्य विभोर्मनस्यपाकरोति दूरीकरोति । यदिति भिन्नपदं वा । यस्य मनसि सुधाकरादि

तापं यदपाकरोति तदेतद्युक्तम् । अद्भुतं त्वेतदित्याह—यस्य महेश्वरस्याङ्गसङ्गि शवभस्म

च कपालमाला च हालाहलं कालकूटाख्यं विषं च अहयो वासुक्यादयश्च दहनोऽग्निस्तृ-

तीयनेत्रस्थस्तदाद्यपि हृद्यमेव ॥
 

 
मूर्तिः क्रिमेः शतपदी श्रवणं प्रविष्टा

दृष्टा रुजामसुहृतं सृजती जनानाम् ।

सौरी तनुर्ननु सहस्रपदी यदीय-

नेत्रस्थिता हरति मृत्युभयं श्रितानाम् ॥ २२ ॥

 
मूर्तिरिति । जनेनेति शेषः । श्रवणं कर्णेणं प्रविष्टा शतपदी शतं पदानि सूक्ष्माणि

यस्याः सा तादृशी क्रिमेः कीटस्य मूर्तिर्भाषया 'कर्णसर्पिणी' नाम्नी । 'कर्णजलौकाशत-
पशु

पद्यु
भे इत्यमरः । जनानां लोकानामसुहृतं असून्प्राणान्हरतीत्यसुहृत्तां रुजं सृजत्युत्पाद

यन्ती जनेन दृष्टा । अत्राप्यत्यद्भुतमाह - ननु निश्चये । यदीयं यस्य विभोरिदं यदीयं

नेत्रं दक्षिणं तत्र स्थिता सहस्रपदी सहस्रं पदानि पादाः किरणाश्च यस्याः सा । पदश-

ब्दोऽपि दृश्यते लक्ष्ये । तादृशी सहस्रपदी सौरी सूरस्य वेरियं सौरी । 'सूरसूर्यार्यमादि-

त्य-' इत्यमरः । सूर्यस्य सहस्रांशुत्वात् । सहस्रपदी तनुर्यत्तृतीय नेत्रस्थिता श्रितानां शर

णमापन्नानां मृत्युभयं हरति । तदेतच्चित्रमित्यर्थः । तं शरणं श्रयामीति संबन्धः ॥

 
आकर्ण्य यः कृपणमार्तवचः [^१]कृपाब्धि-

राधूतमूर्धसुरनिर्झरिणीकणौघैः ।

उत्सङ्गसंगतगिरीन्द्रसुताकुचाग्र-
-
 

संसक्तमौक्तिकमणीन्द्विगुणीकरोति ॥ २३ ॥
 

 
कृपाब्धिर्दयासमुद्रो यः श्रीशिव आर्तवचः 'कृपणमतिदीनं पाहि परमेश्वर' इत्याकर्ण्य

श्रुत्वा तद्वचसो मनसि निलीनत्वाद्दययाधूतः कम्पितो यो मूर्धा तत्र या सुरनिर्झरिणी

गङ्गा तस्याः कणौघैर्जलकणौघैरुत्सङ्ग संगताङ्कस्थिता गिरीन्द्रसुता पार्वती तस्याः कु-

चाप्ग्रे संसक्ता ये मौक्तिकमणयो मुक्तारत्नानि तान्द्विगुणीकरोति । तमहं शरणं श्र

यामीति संबन्ध: ।
 

 
[^
]. 'दयाब्धिः' इति ख- पाठः.
 
Digitized by Google