2023-02-23 21:27:14 by ambuda-bot
This page has not been fully proofread.
९२
काव्यमाला ।
यस्याङ्गसङ्गि शवभस्मकपालमाला-
हालाहलाहिदहनाद्यपि हृद्यमेव ॥ २१ ॥
तदेतद्युक्तम् । किमित्याह - सुधाकरश्चन्द्रः । सुधाकरकः सुधाकमण्डलुः । 'कमण्डली
दाडिमेना करकः करिकः पुनः । मद्यभाण्डे च करका भवेद्वर्षोपले द्वयोः ॥ इति मङ्गः ।
युसिन्धुस्तस्यास्तोयं गङ्गाजलं तदादिर्यस्य तत् तापं त्रिजगत्सर्गादिव्यापारजं संतापं
यस्य विभोर्मनस्यपाकरोति दूरीकरोति । यदिति भिन्नपदं वा । यस्य मनसि सुधाकरादि
तापं यदपाकरोति तदेतद्युक्तम् । अद्भुतं त्वेतदित्याह—यस्य महेश्वरस्याङ्गसङ्गि शवभस्म
च कपालमाला च हालाहलं कालकूटाख्यं विषं च अहयो वासुक्यादयश्च दहनोऽनिस्ट-
तीयनेत्रस्थस्तदाद्यपि हृद्यमेव ॥
मूर्तिः क्रिमेः शतपदी श्रवणं प्रविष्टा
दृष्टा रुजामसुहृतं सृजती जनानाम् ।
सौरी तनुर्ननु सहस्रपदी यदीय-
नेत्रस्थिता हरति मृत्युभयं श्रितानाम् ॥ २२ ॥
मूर्तिरिति । जनेनेति शेषः । श्रवणं कर्णे प्रविष्टा शतपदी शतं पदानि सूक्ष्माणि
यस्याः सा तादृशी क्रिमेः कीटस्य मूर्तिर्भाषया 'कर्णसर्पिणी' नाम्नी । 'कर्णजलौकाशत-
पशुभे इत्यमरः । जनानां लोकानामसुहृतं असून्प्राणान्हरतीत्यसुहृत्तां रुजं सृजत्युत्पाद
यन्ती जनेन दृष्टा । अत्राप्यत्यद्भुतमाह - ननु निश्चये । यदीयं यस्य विभोरिदं यदीयं
नेत्रं दक्षिणं तत्र स्थिता सहस्रपदी सहस्रं पदानि पादाः किरणाश्च यस्याः सा । पदश-
ब्दोऽपि दृश्यते लक्ष्ये । तादृशी सहस्रपदी सौरी सूरस्य वेरियं सौरी । 'सूरसूर्यार्यमादि-
त्य-' इत्यमरः । सूर्यस्य सहस्रांशुत्वात् । सहस्रपदी तनुर्यतृतीय नेत्रस्थिता श्रितानां शर
णमापन्नानां मृत्युभयं हरति । तदेतच्चित्रमित्यर्थः । तं शरणं श्रयामीति संबन्धः ॥
आकर्ण्य यः कृपणमार्तवचः कृपाब्धि-
राधूतमूर्धसुरनिर्झरिणीकणौघैः ।
उत्सङ्गसंगतगिरीन्द्रसुताकुचाग्र-
-
संसक्तमौक्तिकमणीन्द्विगुणीकरोति ॥ २३ ॥
कृपाब्धिर्दयासमुद्रो यः श्रीशिव आर्तवचः 'कृपणमतिदीनं पाहि परमेश्वर' इत्याकर्ण्य
श्रुत्वा तद्वचसो मनसि निलीनत्वाद्दययाधूतः कम्पितो यो मूर्धा तत्र या सुरनिर्झरिणी
गङ्गा तस्याः कणौघैर्जलकणौघैरुत्सङ्ग संगताङ्कस्थिता गिरीन्द्रसुता पार्वती तस्याः कु-
चाप्रे संसक्ता ये मौक्तिकमणयो मुक्तारत्नानि तान्द्विगुणीकरोति । तमहं शरणं श्र
यामीति संबन्ध: ।
१. 'दयाब्धिः' इति ख- पाठः.
Digitized by Google