This page has been fully proofread once and needs a second look.

८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
तं दृष्टिपातमधिगम्य बिभर्ति यस्य
 

प्रीति रतितिं रतिं च हृदि को न सुंसिद्धकामः ॥ १९ ॥
 

 
यस्य विभोस्तं दृष्टिपातमधिगस्य को न भक्तजनो हृदि हृदये प्रीतिमानन्दं रतिं सुखं

च धत्ते । रतिं क्रीडां वा धत्ते । अपि तु सर्व एवेत्यर्थः । किंभूतः । सुसिद्धकामः सुसिद्धः

परिपूर्ण: कामो मनोरथो यस्य । तं दृष्टिपातं कमित्याह – आरूढेति । आरूढरीढमिति

क्रियाविशेषणम् । आरूढा उत्पन्ना रीडाढा अवज्ञा यत्र तम् । 'रीढावमाननावशाज्ञा' इत्यमरः ।

आरूढरीढं सावहेलमपि हृदि समापमर्पितेन दत्तेन येन शरेण प्रीतिं प्रीतिनाम्नीं भार्यो रति
तिं
रतिनाम्नीं च भार्यामपि कामोऽनङ्गो विस्मरति स्म । 'रतिप्रीती कामभायेंर्ये' इति लक्ष्यद-

र्शनात् । तथाहि कविवरजह्रणकृते सोमपालविलासे – 'शङ्खपद्मनिधी यूनां कम्बुक-

ण्ठ्याः पयोधरौ । शृङ्गारानङ्गभृङ्गारी रतिप्रीतिसमुद्गकौ ॥' अस्यार्थः श्रीराजानकरुचक-

विरचितायामलंकारानुसारिण्याम् – 'भृङ्गारौ हेमकलशौ । रतिप्रीती कामभायेंर्ये अपि ।

निधेः सर्वस्वायमानत्वाद्रूपक्रमेव दृष्टम् । कम्बुसदृशरेखत्वेन कण्ठो यस्याः ( ? ) ' इति ।

तं शरणं श्रयामीति प्राग्वत्संबन्धः ॥
 

 
कृष्णोपदर्शितपथः पृथुलोष्मभीष्म-
.
 

श्
लाध्यं दधद्वपुरुपात्तवनान्तवासः ।

व्याधाकृतेरपि धनंजय एव यस्य
 

दृग्गोचरे कृतपदो महसा दिदीपे ॥ २० ॥
 

 
धनंजय एवाभिग्निरेव यस्य विभोर्दृग्गोचरे तृतीयनयनगोचरे कृतं पदं स्थानं येन स ता-

दृङ् महसा तेजसा दिदीपे दीप्तोऽभूत् । अथ च यस्य विभोर्महेश्वरस्यार्जुनानुग्रहाय व्या-

धाकृतेः शबररूपिणोऽपि दृग्गोचरे नेत्रवर्त्मनि कृतपदो धनंजय एवार्जुन एव पार्थानां

मध्ये समरसत्त्वे दिदीपे । 'हुतभुक्पार्थयोः स्याद्धनंजयः' इति मङ्गःखः । द्वावपि विशि-

नष्टि – धनंजयो ऽग्निः किंभूतः । कृष्णो धूम्र उपदर्शितः पन्थाः पथो वा यस्य स कृष्णवर्मा

भिग्निरिति प्रसिद्धः । अकारान्तोऽपि पथशब्दोऽस्ति । तथा बहुलोष्मणा भीष्मं भयान-

कं श्लाघ्यं च वपुर्देहं दधत् । पुनः किंभूतः । उपात्तो वनस्य नीरस्यान्ते समीपे वासिनी

गङ्गासत्कस्य अन्तः समीपं वासस्तत्र कृतः स्थानं (?) येन सः । 'जीवनं भुवनं वनम्'

इत्यमरः । धनंजयोऽर्जुनः किंभूतः । कृष्णोपदर्शितपथ: कृष्णेन श्रीकृष्णेनोपदर्शितः पन्था

'विना श्रीशिवप्रसादं जयद्रथवधः प्रातर्न संभाव्यः' इति श्रीकृष्णोपदेशरूपो यस्य सः ।

तथा उपात्तो वनान्तेऽरण्ये वासो येन स तादृशः । दुर्योधनेन दुरोदरच्छद्मनापहृतरा-

ज्यत्वात् । तमहं शरणं श्रयामीति संबन्धः ॥
 

 
युक्तं सुधाकरसुधाकरकद्युसिन्धु-

तोयादि यन्मनसि तापमपाकरोति ।
 

 
[^
]. 'समिद्ध' इति ख-पाठः,
 
Digitized by Google