This page has not been fully proofread.

८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
तं दृष्टिपातमधिगम्य बिभर्ति यस्य
 
प्रीति रति च हृदि को न सुंसिद्धकामः ॥ १९ ॥
 
यस्य विभोस्तं दृष्टिपातमधिगस्य को न भक्तजनो हृदि हृदये प्रीतिमानन्दं रतिं सुखं
च धत्ते । रतिं क्रीडां वा धत्ते । अपि तु सर्व एवेत्यर्थः । किंभूतः । सुसिद्धकामः सुसिद्धः
परिपूर्ण: कामो मनोरथो यस्य । तं दृष्टिपातं कमित्याह – आरूढेति । आरूढरीढमिति
क्रियाविशेषणम् । आरूढा उत्पन्ना रीडा अवज्ञा यत्र तम् । 'रीढावमाननावशा' इत्यमरः ।
आरूढरीढं सावहेलमपि हृदि समापतेन दत्तेन येन शरेण प्रीतिं प्रीतिनानीं भार्यो रति
रतिनानीं च भार्यामपि कामोऽनङ्गो विस्मरति स्म । 'रतिप्रीती कामभायें' इति लक्ष्यद-
र्शनात् । तथाहि कविवरजहणकृते सोमपालविलासे – 'शङ्खपद्मनिधी यूनां कम्बुक-
ण्ठ्याः पयोधरौ । शृङ्गारानभृङ्गारी रतिप्रीतिसमुद्गकौ ॥' अस्यार्थः श्रीराजानकरुचक-
विरचितायामलंकारानुसारिण्याम् – 'भृङ्गारौ हेमकलशौ । रतिप्रीती कामभायें अपि ।
निधेः सर्वस्वायमानत्वाद्रूपक्रमेव दृष्टम् । कम्बुसदृशरेखत्वेन कण्ठो यस्याः ( ? ) ' इति ।
तं शरणं श्रयामीति प्राग्वत्संबन्धः ॥
 
कृष्णोपदर्शितपथः टथुलोष्मभीष्म-
.
 
लाध्यं दधद्वपुरुपात्तवनान्तवासः ।
व्याधाकृतेरपि धनंजय एव यस्य
 
दृग्गोचरे कृतपदो महसा दिदीपे ॥ २० ॥
 
धनंजय एवाभिरेव यस्य विभोर्दृग्गोचरे तृतीयनयनगोचरे कृतं पदं स्थानं येन स ता-
दृङ् महसा तेजसा दिदीपे दीप्तोऽभूत् । अथ च यस्य विभोर्महेश्वरस्यार्जुनानुग्रहाय व्या-
धाकृतेः शबररूपिणोऽपि दृग्गोचरे नेत्रवर्त्मनि कृतपदो धनंजय एवार्जुन एव पार्थानां
मध्ये समरसत्त्वे दिदीपे । 'हुतभुक्पार्थयोः स्याद्धनंजयः' इति मङ्गः । द्वावपि विशि-
नष्टि – धनंजयो ऽग्निः किंभूतः । कृष्णो धूम्र उपदर्शितः पन्थाः पथो वा यस्य स कृष्णवर्मा
अभिरिति प्रसिद्धः । अकारान्तोऽपि पथशब्दोऽस्ति । तथा बहुलोष्मणा भीष्मं भयान-
कं श्लाघ्यं च वपुर्देहं दधत् । पुनः किंभूतः । उपात्तो वनस्य नीरस्यान्ते समीपे वासिनी
गङ्गासत्कस्य अन्तः समीपं वासस्तत्र कृतः स्थानं (?) येन सः । 'जीवनं भुवनं वनम्'
इत्यमरः । धनंजयोऽर्जुनः किंभूतः । कृष्णोपदर्शितपथ: कृष्णेन श्रीकृष्णेनोपदर्शितः पन्था
'विना श्रीशिवप्रसादं जयद्रथवधः प्रातर्न संभाव्यः' इति श्रीकृष्णोपदेशरूपो यस्य सः ।
तथा उपात्तो वनान्तेऽरण्ये वासो येन स तादृशः । दुर्योधनेन दुरोदरच्छद्मनापहृतरा-
ज्यत्वात् । तमहं शरणं श्रयामीति संबन्धः ॥
 
युक्तं सुधाकरसुधाकरकद्युसिन्धु-
तोयादि यन्मनसि तापमपाकरोति ।
 
१. 'समिद्ध' इति व पाठः,
 
Digitized by Google