This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
श्वेतं श्वेतनामानं नृपं रविजत्रासेन स्वयंभुलिङ्गमालिङ्गन्तमाशु शीघ्रमेव त्राहीतिनिवेदना-

नन्तरमेवानुगृह्य दृशैव तृतीयलोचनरूपया यमं शमं भस्मावशेषतां नयति स्म । किंभू-

तम् । विपक्षं रिपुं पूर्वोद्दिष्टपक्षविपरीतं च । तमहं शरणं श्रयामीति संबन्धः ॥

 
चक्री मुखाग्रविलसज्ज्वलनोग्रजिह्वा-

लीढाम्बरः क्षितिधरेन्द्रधनुर्धरस्य ।

यस्यागमन्निधनसाधनतां पुराणां
 

बाणीकृतश्च रणमूर्ध्नि गुणीकृतश्च ॥ १७ ॥
 

 
चक्रीति । यस्य श्रीशिवस्य रणमूर्ध्नि सङ्ग्रामशिरसि चक्री चक्रं सुदर्शनाख्यमस्या-

स्तीति चक्री विष्णुर्बाणीकृतः शरीकृतः शरभावं संपन्नः । तथा चक्रं कुण्डलाकारत्वम्-

स्यास्तीति चक्री (सूर्यो) वासुकिश्च । 'चक्री व्यालः सरीसृपः' इत्यमरः । 'चक्रिणौ

हरिपन्नगौ' इत्यप्यमरः । गुणीकृतः । गुणो ज्या । अगुणो गुणः संपन्नः । धनुषो ज्या-

भूतश्च । पुराणां त्रिपुराख्यासुराणां निधनसाधनतां मृत्युनिमित्ततामगमत् । प्राप्येत्यर्थः ।

द्वावपि विशिनष्टि— मुखाप्ग्रेति । चक्री विष्णुः शरभूतः कीदृक् । मुखस्य शरफलस्यामं
ग्रं
तत्र विलसञ्ज्वलनः साक्षादग्निस्तस्य या उग्राः कठिना ज्वालाः शिखास्ताभिलींर्लीढं व्या-

प्त
मम्बरं येन सः । चक्री (सूर्यो) वासुकिश्च । धनुर्गुणः किंभूतः । मुखस्य वदनस्याअं
ग्रं
तत्र विशेषेण लसन्त्यो या ज्वलनवदग्निवदुग्रा जिह्वा रसनास्ताभिर्लीढमम्बरं युद्धवस्त्रं

येन सः । यस्य विभोः किंभूतस्य । क्षितिधराणां पर्वतानामिन्द्रो मन्दराख्यो गिरिः स

एव धनुस्तं धारयतीति तादृशस्य ॥
 

 
चक्रायुधं विशिखतामुडुचक्रवर्ति

चक्राभिधानसुहृदौ रथचक्रभावम् ।
 

नीत्वासृजत्रिदशधाम्नि रसातले च
 

यो हर्षशोकमयमश्रु पुराङ्गनानाम् ॥ १८ ॥
 

 
चक्रेति । यो विभुश्चक्रायुधं विष्णुं विशिखतां शरभावं नीत्वा प्रापय्य तथा उडूनां

नक्षत्राणां चक्रवर्ती इन्दुः चक्राभिधानसुहृत्सूर्यस्तौ च रथचक्रभावं क्षोणीरूपस्य रथस्य

चक्रद्वयभावं नीत्वा त्रिदशधाम्नि देवालये स्वर्गे पुराङ्गनानां पुरे नगरे या अङ्गनाः का

मिन्यः । पौराङ्गना इत्यर्थः । तासां हर्षमयमश्रु असृजत् । तथा रसातले पाताले च

पुराङ्गनानां पुराणां त्रिपुराख्यासुराणां या अङ्गनास्तासां शोकमयमश्रु असृजत् । तासां

भर्तृवावधाच्छोकाश्रूद्गमो जात इत्यर्थः ॥
 

 
आरूढरीढमं[^१]मपि येन समर्पितेन
 

प्रीतिं रतिं च हृदि विस्मरति स्म कामः ।
 

 
[^
]. 'इव' इति ख- पाठ:.
 
Digitized by Google